Click on words to see what they mean.

वैशंपायन उवाच ।ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः ।ययुस्ते नगराकारै रथैः पाण्डवयादवाः ॥ १ ॥
प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम् ।सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ॥ २ ॥
व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः ।निषेदुरभितो भीष्मं परिवार्य समन्ततः ॥ ३ ॥
ततो राजा महातेजा धर्मराजो युधिष्ठिरः ।अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च ॥ ४ ॥
य एष राजा-राजेति शब्दश्चरति भारत ।कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह ॥ ५ ॥
तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः ।तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः ॥ ६ ॥
तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च ।निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ॥ ७ ॥
समानजन्ममरणः समः सर्वगुणैर्नृणाम् ।विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ॥ ८ ॥
कथमेको महीं कृत्स्नां वीरशूरार्यसंकुलाम् ।रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति ॥ ९ ॥
एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति ।व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ॥ १० ॥
एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ ।श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर ॥ ११ ॥
नैतत्कारणमल्पं हि भविष्यति विशां पते ।यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम् ॥ १२ ॥
भीष्म उवाच ।नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः ।यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥ १३ ॥
नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः ।धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् ॥ १४ ॥
पालयानास्तथान्योन्यं नरा धर्मेण भारत ।खेदं परममाजग्मुस्ततस्तान्मोह आविशत् ॥ १५ ॥
ते मोहवशमापन्ना मानवा मनुजर्षभ ।प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ॥ १६ ॥
नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा ।लोभस्य वशमापन्नाः सर्वे भारतसत्तम ॥ १७ ॥
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः ।कामो नामापरस्तत्र समपद्यत वै प्रभो ॥ १८ ॥
तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत् ।रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर ॥ १९ ॥
अगम्यागमनं चैव वाच्यावाच्यं तथैव च ।भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् ॥ २० ॥
विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह ।नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् ॥ २१ ॥
नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् ।ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ॥ २२ ॥
प्रपद्य भगवन्तं ते देवा लोकपितामहम् ।ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः ॥ २३ ॥
भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम् ।लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ॥ २४ ॥
ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर ।ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर ॥ २५ ॥
अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः ।क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ॥ २६ ॥
अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह ।त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति ॥ २७ ॥
तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः ।श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः ॥ २८ ॥
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् ।यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ॥ २९ ॥
त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा ।चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः ॥ ३० ॥
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः ।स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥ ३१ ॥
आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च ।सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ॥ ३२ ॥
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ ।दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥ ३३ ॥
अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् ।चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ॥ ३४ ॥
साम चोपप्रदानं च भेदो दण्डश्च पाण्डव ।उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥ ३५ ॥
मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च ।विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ॥ ३६ ॥
संधिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः ।भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः ॥ ३७ ॥
यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः ।विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥ ३८ ॥
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः ।लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥ ३९ ॥
प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः ।प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः ॥ ४० ॥
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव ।विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् ॥ ४१ ॥
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु ।जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥ ४२ ॥
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः ।अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः ॥ ४३ ॥
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह ।आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् ॥ ४४ ॥
कल्पना विविधाश्चापि नृनागरथवाजिनाम् ।व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ॥ ४५ ॥
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् ।शस्त्राणां पायनज्ञानं तथैव भरतर्षभ ॥ ४६ ॥
बलव्यसनमुक्तं च तथैव बलहर्षणम् ।पीडनास्कन्दकालश्च भयकालश्च पाण्डव ॥ ४७ ॥
तथा खातविधानं च योगसंचार एव च ।चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥ ४८ ॥
अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः ।श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥ ४९ ॥
दूषणेन च नागानामाशङ्काजननेन च ।आरोधनेन भक्तस्य पथश्चोपार्जनेन च ॥ ५० ॥
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् ।दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ॥ ५१ ॥
अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् ।अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥ ५२ ॥
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ।शमो व्यायामयोगश्च योगो द्रव्यस्य संचयः ॥ ५३ ॥
अभृतानां च भरणं भृतानां चान्ववेक्षणम् ।अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता ॥ ५४ ॥
तथा राजगुणाश्चैव सेनापतिगुणाश्च ये ।कारणस्य च कर्तुश्च गुणदोषास्तथैव च ॥ ५५ ॥
दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् ।शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥ ५६ ॥
अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् ।प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ॥ ५७ ॥
विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना ।चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः ॥ ५८ ॥
क्रोधजानि तथोग्राणि कामजानि तथैव च ।दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥ ५९ ॥
मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ।कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा ॥ ६० ॥
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च ।आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च ॥ ६१ ॥
यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः ।अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ॥ ६२ ॥
चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम् ।अपस्करोऽथ गमनं तथोपास्या च वर्णिता ॥ ६३ ॥
पणवानकशङ्खानां भेरीणां च युधां वर ।उपार्जनं च द्रव्याणां परमर्म च तानि षट् ॥ ६४ ॥
लब्धस्य च प्रशमनं सतां चैव हि पूजनम् ।विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता ॥ ६५ ॥
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया ।आहारयोजनं चैव नित्यमास्तिक्यमेव च ॥ ६६ ॥
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः ।उत्सवानां समाजानां क्रियाः केतनजास्तथा ॥ ६७ ॥
प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च ।वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥ ६८ ॥
अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् ।अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् ॥ ६९ ॥
रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम् ।मण्डलस्था च या चिन्ता राजन्द्वादशराजिका ॥ ७० ॥
द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा ।देशजातिकुलानां च धर्माः समनुवर्णिताः ॥ ७१ ॥
धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः ।उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः ॥ ७२ ॥
मूलकर्मक्रिया चात्र माया योगश्च वर्णितः ।दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम् ॥ ७३ ॥
यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः ।तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम् ॥ ७४ ॥
एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः ।देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान् ॥ ७५ ॥
उपकाराय लोकस्य त्रिवर्गस्थापनाय च ।नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥ ७६ ॥
दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।निग्रहानुग्रहरता लोकाननु चरिष्यति ॥ ७७ ॥
दण्डेन नीयते चेयं दण्डं नयति चाप्युत ।दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते ॥ ७८ ॥
षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु ।महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ॥ ७९ ॥
नयचारश्च विपुलो येन सर्वमिदं ततम् ।आगमश्च पुराणानां महर्षीणां च संभवः ॥ ८० ॥
तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर ।सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ॥ ८१ ॥
चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् ।इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ॥ ८२ ॥
तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः ।वृद्धोपसेवा दानं च शौचमुत्थानमेव च ॥ ८३ ॥
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् ।भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ॥ ८४ ॥
तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम् ।धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ॥ ८५ ॥
ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः ।बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥ ८६ ॥
युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः ।संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् ॥ ८७ ॥
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत ।दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ॥ ८८ ॥
भगवानपि तच्छास्त्रं संचिक्षेप पुरंदरः ।सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ॥ ८९ ॥
अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः ।संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते ॥ ९० ॥
अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् ।तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः ॥ ९१ ॥
एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः ।संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव ॥ ९२ ॥
अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् ।एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश ॥ ९३ ॥
ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः ।तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ॥ ९४ ॥
विरजास्तु महाभाग विभुत्वं भुवि नैच्छत ।न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव ॥ ९५ ॥
कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत् ।कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः ॥ ९६ ॥
प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः ।प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः ॥ ९७ ॥
अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै ।अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत् ॥ ९८ ॥
मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी ।प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् ॥ ९९ ॥
तं प्रजासु विधर्माणं रागद्वेषवशानुगम् ।मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः ॥ १०० ॥
ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः ।ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि ॥ १०१ ॥
दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः ।निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ॥ १०२ ॥
तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः ।ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ॥ १०३ ॥
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ।ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः ॥ १०४ ॥
कवची बद्धनिस्त्रिंशः सशरः सशरासनः ।वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ॥ १०५ ॥
तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् ।ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह ॥ १०६ ॥
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी ।अनया किं मया कार्यं तन्मे तत्त्वेन शंसत ॥ १०७ ॥
यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् ।तदहं वै करिष्यामि नात्र कार्या विचारणा ॥ १०८ ॥
तमूचुरथ देवास्ते ते चैव परमर्षयः ।नियतो यत्र धर्मो वै तमशङ्कः समाचर ॥ १०९ ॥
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु ।कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः ॥ ११० ॥
यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः ।निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः ॥ १११ ॥
प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा ।पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥ ११२ ॥
यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः ।तमशङ्कः करिष्यामि स्ववशो न कदाचन ॥ ११३ ॥
अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो ।लोकं च संकरात्कृत्स्नात्त्रातास्मीति परंतप ॥ ११४ ॥
वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् ।ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ॥ ११५ ॥
एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः ।पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ॥ ११६ ॥
मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत् ।महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ॥ ११७ ॥
आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु ।उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥ ११८ ॥
समतां वसुधायाश्च स सम्यगुपपादयत् ।वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम् ॥ ११९ ॥
स विष्णुना च देवेन शक्रेण विबुधैः सह ।ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ॥ १२० ॥
तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव ।सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः ॥ १२१ ॥
शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर ।रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ॥ १२२ ॥
यक्षराक्षसभर्ता च भगवान्नरवाहनः ।धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् ॥ १२३ ॥
हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा ।प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव ।न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा ॥ १२४ ॥
सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन ।भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात् ॥ १२५ ॥
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च ।यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत् ॥ १२६ ॥
तेन धर्मोत्तरश्चायं कृतो लोको महात्मना ।रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ॥ १२७ ॥
ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते ।प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता ॥ १२८ ॥
स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः ।नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव ॥ १२९ ॥
तपसा भगवान्विष्णुराविवेश च भूमिपम् ।देववन्नरदेवानां नमते यज्जगन्नृप ॥ १३० ॥
दण्डनीत्या च सततं रक्षितं तं नरेश्वर ।नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात् ॥ १३१ ॥
आत्मना करणैश्चैव समस्येह महीक्षितः ।को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ॥ १३२ ॥
विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा ।श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः ॥ १३३ ॥
श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव ।अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ॥ १३४ ॥
सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् ।पार्थिवो जायते तात दण्डनीतिवशानुगः ॥ १३५ ॥
महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि ।बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ॥ १३६ ॥
स्थापनामथ देवानां न कश्चिदतिवर्तते ।तिष्ठत्येकस्य च वशे तं चेदनुविधीयते ॥ १३७ ॥
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति ॥ १३८ ॥
यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः ।सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ॥ १३९ ॥
ततो जगति राजेन्द्र सततं शब्दितं बुधैः ।देवाश्च नरदेवाश्च तुल्या इति विशां पते ॥ १४० ॥
एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु ।कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम् ॥ १४१ ॥
« »