Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः ।याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥ १ ॥
स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः ।अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥ २ ॥
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः ।अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥ ३ ॥
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः ।शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ॥ ४ ॥
वीणापणववेणूनां स्वनश्चातिमनोरमः ।प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ॥ ५ ॥
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः ।उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ॥ ६ ॥
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः ।जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥ ७ ॥
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा ।गवां सहस्रेणैकैकं वाचयामास माधवः ॥ ८ ॥
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च ।आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥ ९ ॥
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् ।अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ॥ १० ॥
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ ।उपगम्य च राजानं युधिष्ठिरमुवाच ह ॥ ११ ॥
युक्तो रथवरो राजन्वासुदेवस्य धीमतः ।समीपमापगेयस्य प्रयास्यति जनार्दनः ॥ १२ ॥
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते ।यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥ १३ ॥
युधिष्ठिर उवाच ।युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते ।न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ॥ १४ ॥
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः ।अतः पुरःसराश्चापि निवर्तन्तु धनंजय ॥ १५ ॥
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति ।ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥ १६ ॥
वैशंपायन उवाच ।तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयः ।युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ॥ १७ ॥
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि ।भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥ १८ ॥
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु ।शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥ १९ ॥
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् ।मेघघोषै रथवरैः प्रययुस्ते महारथाः ॥ २० ॥
मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च ।दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥ २१ ॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ॥ २२ ॥
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः ।क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥ २३ ॥
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः ।आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ॥ २४ ॥
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः ।भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ।ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥ २५ ॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥ २६ ॥
शरतल्पे शयानं तमादित्यं पतितं यथा ।ददर्श स महाबाहुर्भयादागतसाध्वसः ॥ २७ ॥
« »