Click on words to see what they mean.

जनमेजय उवाच ।धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि ।देवव्रते महाभागे शरतल्पगतेऽच्युते ॥ १ ॥
शयाने वीरशयने भीष्मे शंतनुनन्दने ।गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते ॥ २ ॥
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे ।हतेषु सर्वसैन्येषु तन्मे शंस महामुने ॥ ३ ॥
वैशंपायन उवाच ।शरतल्पगते भीष्मे कौरवाणां धुरंधरे ।आजग्मुरृषयः सिद्धा नारदप्रमुखा नृप ॥ ४ ॥
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः ।धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा ॥ ५ ॥
तेऽभिगम्य महात्मानो भरतानां पितामहम् ।अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा ॥ ६ ॥
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः ।उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् ॥ ७ ॥
प्राप्तकालं च आचक्षे भीष्मोऽयमनुयुज्यताम् ।अस्तमेति हि गाङ्गेयो भानुमानिव भारत ॥ ८ ॥
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत ।कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् ॥ ९ ॥
एष वृद्धः पुरा लोकान्संप्राप्नोति तनुत्यजाम् ।तं शीघ्रमनुयुञ्जध्वं संशयान्मनसि स्थितान् ॥ १० ॥
एवमुक्ता नारदेन भीष्ममीयुर्नराधिपाः ।प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम् ॥ ११ ॥
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः ।नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् ॥ १२ ॥
प्रव्याहारय दुर्धर्ष त्वमग्रे मधुसूदन ।त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः ॥ १३ ॥
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा ।अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः ॥ १४ ॥
वासुदेव उवाच ।कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम ।विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव ॥ १५ ॥
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ ।न ग्लायते च हृदयं न च ते व्याकुलं मनः ॥ १६ ॥
भीष्म उवाच ।दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा ।तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ ॥ १७ ॥
यच्च भूतं भविष्यच्च भवच्च परमद्युते ।तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् ॥ १८ ॥
वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये ।तान्सर्वान्संप्रपश्यामि वरदानात्तवाच्युत ॥ १९ ॥
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते ।देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन ॥ २० ॥
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः ।राजधर्मांश्च सकलानवगच्छामि केशव ॥ २१ ॥
यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन ।तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् ॥ २२ ॥
युवेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः ।वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन ॥ २३ ॥
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् ।किं ते विवक्षितं चात्र तदाशु वद माधव ॥ २४ ॥
वासुदेव उवाच ।यशसः श्रेयसश्चैव मूलं मां विद्धि कौरव ।मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः ॥ २५ ॥
शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मयिष्यति ।तथैव यशसा पूर्णे मयि को विस्मयिष्यति ॥ २६ ॥
आधेयं तु मया भूयो यशस्तव महाद्युते ।ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता ॥ २७ ॥
यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा ।तावत्तवाक्षया कीर्तिर्लोकाननु चरिष्यति ॥ २८ ॥
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते ।वेदप्रवादा इव ते स्थास्यन्ति वसुधातले ॥ २९ ॥
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना ।स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति ॥ ३० ॥
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते ।दत्ता यशो विप्रथेत कथं भूयस्तवेति ह ॥ ३१ ॥
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि ।तावत्तस्याक्षयं स्थानं भवतीति विनिश्चितम् ॥ ३२ ॥
राजानो हतशिष्टास्त्वां राजन्नभित आसते ।धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत ॥ ३३ ॥
भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः ।कुशलो राजधर्माणां पूर्वेषामपराश्च ये ॥ ३४ ॥
जन्मप्रभृति ते कश्चिद्वृजिनं न ददर्श ह ।ज्ञातारमनुधर्माणां त्वां विदुः सर्वपार्थिवाः ॥ ३५ ॥
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् ।ऋषयश्च हि देवाश्च त्वया नित्यमुपासिताः ॥ ३६ ॥
तस्माद्वक्तव्यमेवेह त्वया पश्याम्यशेषतः ।धर्माञ्शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः ॥ ३७ ॥
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः ।अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो ॥ ३८ ॥
तस्मात्पुत्रैश्च पौत्रैश्च धर्मान्पृष्टः सनातनान् ।विद्वाञ्जिज्ञासमानैस्त्वं प्रब्रूहि भरतर्षभ ॥ ३९ ॥
« »