Click on words to see what they mean.

जनमेजय उवाच ।बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥ १ ॥
वैशंपायन उवाच ।बहवः पुरुषा लोके सांख्ययोगविचारिणाम् ।नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ २ ॥
बहूनां पुरुषाणां च यथैका योनिरुच्यते ।तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥ ३ ॥
नमस्कृत्वा तु गुरवे व्यासायामिततेजसे ।तपोयुक्ताय दान्ताय वन्द्याय परमर्षये ॥ ४ ॥
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ।ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ॥ ५ ॥
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः ।अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥ ६ ॥
समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् ।तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः ॥ ७ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते ॥ ८ ॥
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः ।वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥ ९ ॥
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् ।वैराजसदने नित्यं वैजयन्तं निषेवते ॥ १० ॥
अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः ।ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया ।आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः ॥ ११ ॥
ततः खान्निपपाताशु धरणीधरमूर्धनि ।अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥ १२ ॥
तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना ।उत्थापयामास तदा प्रभुरेकः प्रजापतिः ॥ १३ ॥
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् ।स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् ॥ १४ ॥
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा ।नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥ १५ ॥
रुद्र उवाच ।त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम ।कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा ॥ १६ ॥
चिरदृष्टो हि भगवान्वैराजसदने मया ।ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥ १७ ॥
कौतूहलं चापि हि मे एकान्तगमनेन ते ।नैतत्कारणमल्पं हि भविष्यति पितामह ॥ १८ ॥
किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् ।सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः ॥ १९ ॥
गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम् ।उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥ २० ॥
ब्रह्मोवाच ।वैजयन्तो गिरिवरः सततं सेव्यते मया ।अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥ २१ ॥
रुद्र उवाच ।बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुवा ।सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥ २२ ॥
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः ।एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे ॥ २३ ॥
ब्रह्मोवाच ।बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः ।एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ।आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ॥ २४ ॥
बहूनां पुरुषाणां स यथैका योनिरुच्यते ।तथा तं पुरुषं विश्वं परमं सुमहत्तमम् ।निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥ २५ ॥
« »