Click on words to see what they mean.

ब्रह्मोवाच ।शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः ।अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ १ ॥
न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम ।सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ २ ॥
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ।वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥ ३ ॥
ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः ।सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ ४ ॥
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ ५ ॥
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे ।तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ६ ॥
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् ।सांख्येन विधिना चैव योगेन च यथाक्रमम् ॥ ७ ॥
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् ।यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ॥ ८ ॥
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः ।महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥ ९ ॥
एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसां योनिरेका ।एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः ।पुरुषश्चैको निर्गुणो विश्वरूपस्तं निर्गुणं पुरुषं चाविशन्ति ॥ १० ॥
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् ।उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥ ११ ॥
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ॥ १२ ॥
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ॥ १३ ॥
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः ।स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ।न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥ १४ ॥
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ।ससप्तदशकेनापि राशिना युज्यते हि सः ।एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥ १५ ॥
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं सबोद्धृ ।मन्ता मन्तव्यं प्राशिता प्राशितव्यं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥ १६ ॥
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च ।यद्वै प्रोक्तं गुणसाम्यं प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च ॥ १७ ॥
यद्वै सूते धातुराद्यं निधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥ १८ ॥
देवाः सर्वे मुनयः साधु दान्तास्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते ।अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ।मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र ॥ १९ ॥
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः ॥ २० ॥
एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।सांख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥ २१ ॥
« »