Click on words to see what they mean.

जनमेजय उवाच ।सांख्यं योगं पञ्चरात्रं वेदारण्यकमेव च ।ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥ १ ॥
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने ।प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥ २ ॥
वैशंपायन उवाच ।जज्ञे बहुज्ञं परमत्युदारं यं द्वीपमध्ये सुतमात्मवन्तम् ।पराशराद्गन्धवती महर्षिं तस्मै नमोऽज्ञानतमोनुदाय ॥ ३ ॥
पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम् ।नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदमहानिधानम् ॥ ४ ॥
तमादिकालेषु महाविभूतिर्नारायणो ब्रह्ममहानिधानम् ।ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजः पुराणः ॥ ५ ॥
जनमेजय उवाच ।त्वयैव कथितः पूर्वं संभवो द्विजसत्तम ।वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥ ६ ॥
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः ।भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ॥ ७ ॥
किमतः पूर्वजं जन्म व्यासस्यामिततेजसः ।कथयस्वोत्तममते जन्म नारायणोद्भवम् ॥ ८ ॥
वैशंपायन उवाच ।वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः ।गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ॥ ९ ॥
कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः ।शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा ॥ १० ॥
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ॥ ११ ॥
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः ।शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ॥ १२ ॥
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः ।तमेकमनसं दान्तं युक्ता वयमुपास्महे ॥ १३ ॥
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः ।वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा ॥ १४ ॥
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् ।नारायणादिदं जन्म व्याहर्तुमुपचक्रमे ॥ १५ ॥
शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् ।आदिकालोद्भवं विप्रास्तपसाधिगतं मया ॥ १६ ॥
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे ।नारायणो महायोगी शुभाशुभविवर्जितः ॥ १७ ॥
ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् ।ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् ॥ १८ ॥
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः ।सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः ॥ १९ ॥
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः ।प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ॥ २० ॥
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते ।अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ॥ २१ ॥
स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः ।चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः ॥ २२ ॥
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् ।योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ॥ २३ ॥
स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् ।उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः ॥ २४ ॥
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये ।ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥ २५ ॥
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः ।भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः ॥ २६ ॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम् ॥ २७ ॥
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् ।अथास्य बुद्धिरभवत्पुनरन्या तदा किल ॥ २८ ॥
सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना ।दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः ।जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥ २९ ॥
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः ।भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान् ॥ ३० ॥
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः ।बाधितव्याः सुरगणा ऋषयश्च तपोधनाः ।तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ॥ ३१ ॥
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् ।निग्रहेण च पापानां साधूनां प्रग्रहेण च ॥ ३२ ॥
इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् ।मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ॥ ३३ ॥
मया धृता धारयति जगद्धि सचराचरम् ।तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥ ३४ ॥
एवं स चिन्तयित्वा तु भगवान्मधुसूदनः ।रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ॥ ३५ ॥
वाराहं नारसिंहं च वामनं मानुषं तथा ।एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः ॥ ३६ ॥
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् ।सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥ ३७ ॥
अपान्तरतमा नाम सुतो वाक्संभवो विभोः ।भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥ ३८ ॥
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ।वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर ।तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने ॥ ३९ ॥
तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे ।ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा ।तपसा च सुतप्तेन यमेन नियमेन च ॥ ४० ॥
श्रीभगवानुवाच ।मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः ।भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥ ४१ ॥
पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः ।भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥ ४२ ॥
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति ।परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥ ४३ ॥
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः ।कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि ॥ ४४ ॥
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा ।भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥ ४५ ॥
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति ।महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥ ४६ ॥
यं मानसं वै प्रवदन्ति पुत्रं पितामहस्योत्तमबुद्धियुक्तम् ।वसिष्ठमग्र्यं तपसो निधानं यश्चापि सूर्यं व्यतिरिच्य भाति ॥ ४७ ॥
तस्यान्वये चापि ततो महर्षिः पराशरो नाम महाप्रभावः ।पिता स ते वेदनिधिर्वरिष्ठो महातपा वै तपसो निवासः ।कानीनगर्भः पितृकन्यकायां तस्मादृषेस्त्वं भविता च पुत्रः ॥ ४८ ॥
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः ।ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ॥ ४९ ॥
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः ।पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् ॥ ५० ॥
अनादिनिधनं लोके चक्रहस्तं च मां मुने ।अनुध्यानान्मम मुने नैतद्वचनमन्यथा ॥ ५१ ॥
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् ।तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः ।त्वमेव भविता वत्स मत्प्रसादान्न संशयः ॥ ५२ ॥
व्यास उवाच ।एवं सारस्वतमृषिमपान्तरतमं तदा ।उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ॥ ५३ ॥
सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः ।अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः ।पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ॥ ५४ ॥
तदेतत्कथितं जन्म मया पूर्वकमात्मनः ।नारायणप्रसादेन तथा नारायणांशजम् ॥ ५५ ॥
मया हि सुमहत्तप्तं तपः परमदारुणम् ।पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ॥ ५६ ॥
एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः ।पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥ ५७ ॥
वैशंपायन उवाच ।एष ते कथितः पूर्वं संभवोऽस्मद्गुरोर्नृप ।व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥ ५८ ॥
सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ ५९ ॥
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ ६० ॥
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते ।प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ ६१ ॥
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः ।उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥ ६२ ॥
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम् ।सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ ६३ ॥
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः ।न चैनमेवं जानन्ति तमोभूता विशां पते ॥ ६४ ॥
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः ।निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः ॥ ६५ ॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ।ससंशयान्हेतुबलान्नाध्यावसति माधवः ॥ ६६ ॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ ६७ ॥
सांख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन् ।सर्वैः समस्तैरृषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम् ॥ ६८ ॥
शुभाशुभं कर्म समीरितं यत्प्रवर्तते सर्वलोकेषु किंचित् ।तस्मादृषेस्तद्भवतीति विद्याद्दिव्यन्तरिक्षे भुवि चाप्सु चापि ॥ ६९ ॥
« »