Click on words to see what they mean.

जनमेजय उवाच ।ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम् ।यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥ १ ॥
इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥ २ ॥
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा ।आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥ ३ ॥
समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम् ।तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ॥ ४ ॥
स हीशो भगवान्देवः सर्वभूतात्मभावनः ।अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ॥ ५ ॥
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः ।ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम् ।न ततोऽस्ति परं मन्ये पावनं दिवि चेह च ॥ ६ ॥
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।न तथा फलदं चापि नारायणकथा यथा ॥ ७ ॥
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् ।हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥ ८ ॥
न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः ।वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥ ९ ॥
न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु ।त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा ॥ १० ॥
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः ।हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥ ११ ॥
तपसापि न दृश्यो हि भगवाँल्लोकपूजितः ।यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥ १२ ॥
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः ।न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् ।श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥ १३ ॥
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् ।यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् ॥ १४ ॥
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः ।नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥ १५ ॥
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः ।बदरीमाश्रमं प्राप्य समागम्य च तावृषी ॥ १६ ॥
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः ।श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि ॥ १७ ॥
किमब्रूतां महात्मानौ नरनारायणावृषी ।तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥ १८ ॥
वैशंपायन उवाच ।नमो भगवते तस्मै व्यासायामिततेजसे ।यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ १९ ॥
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् ।निवृत्तो नारदो राजंस्तरसा मेरुमागमत् ।हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥ २० ॥
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् ।यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥ २१ ॥
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् ।निपपात च खात्तूर्णं विशालां बदरीमनु ॥ २२ ॥
ततः स ददृशे देवौ पुराणावृषिसत्तमौ ।तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥ २३ ॥
तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् ।श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥ २४ ॥
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ ।व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ॥ २५ ॥
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ ।स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ ॥ २६ ॥
आतपत्रेण सदृशे शिरसी देवयोस्तयोः ।एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ ॥ २७ ॥
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः ।स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा ॥ २८ ॥
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ ।सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ॥ २९ ॥
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ ।इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् ।उपोपविविशे तत्र पीठे कुशमये शुभे ॥ ३० ॥
ततस्तौ तपसां वासौ यशसां तेजसामपि ।ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् ॥ ३१ ॥
पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च ।पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप ॥ ३२ ॥
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत ।आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा ॥ ३३ ॥
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ।सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥ ३४ ॥
अपीदानीं स भगवान्परमात्मा सनातनः ।श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥ ३५ ॥
नारद उवाच ।दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः ।सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः ।अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥ ३६ ॥
यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् ।तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥ ३७ ॥
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः ।इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ॥ ३८ ॥
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया ।सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥ ३९ ॥
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम् ।प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा ॥ ४० ॥
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः ।प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥ ४१ ॥
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः ।प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥ ४२ ॥
रमते सोऽर्च्यमानो हि सदा भागवतप्रियः ।विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः ।स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ॥ ४३ ॥
तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत् ।तेज इत्यभिविख्यातं स्वयंभासावभासितम् ॥ ४४ ॥
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् ।एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥ ४५ ॥
न तत्र सूर्यस्तपति न सोमोऽभिविराजते ।न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥ ४६ ॥
वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक् ।एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः ।साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ॥ ४७ ॥
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् ।शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ॥ ४८ ॥
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये ।हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते ।कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति ॥ ४९ ॥
याः क्रियाः संप्रयुक्तास्तु एकान्तगतबुद्धिभिः ।ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥ ५० ॥
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः ।विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः ।इह चैवागतस्तेन विसृष्टः परमात्मना ॥ ५१ ॥
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः ।आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥ ५२ ॥
« »