Click on words to see what they mean.

नरनारायणावूचतुः ।धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः ।न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ॥ १ ॥
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः ।नारदैतद्धि ते सत्यं वचनं समुदाहृतम् ॥ २ ॥
नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते ।ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ॥ ३ ॥
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः ।न तत्संप्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ॥ ४ ॥
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः ।स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥ ५ ॥
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः ।क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥ ६ ॥
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः ।आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥ ७ ॥
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् ।येन स्म युज्यते सूर्यस्ततो लोकान्विराजते ॥ ८ ॥
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् ।येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ॥ ९ ॥
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः ।आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥ १० ॥
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः ।चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥ ११ ॥
षड्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् ।विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ॥ १२ ॥
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः ।तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ।सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते ॥ १३ ॥
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् ।परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥ १४ ॥
तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः ।मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ॥ १५ ॥
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं तथा ।विशन्ति विप्रप्रवराः सांख्या भागवतैः सह ॥ १६ ॥
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा ।प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् ।सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥ १७ ॥
समाहितमनस्काश्च नियताः संयतेन्द्रियाः ।एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ १८ ॥
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम ।रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥ १९ ॥
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः ।भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज ॥ २० ॥
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम ।आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् ॥ २१ ॥
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन ।समागतो भगवता संजल्पं कृतवान्यथा ॥ २२ ॥
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे ।यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ॥ २३ ॥
वैशंपायन उवाच ।एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत ।नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥ २४ ॥
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् ।दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥ २५ ॥
अवसत्स महातेजा नारदो भगवानृषिः ।तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ ॥ २६ ॥
« »