Click on words to see what they mean.

भीष्म उवाच ।स एवमुक्तो द्विपदां वरिष्ठो नारायणेनोत्तमपूरुषेण ।जगाद वाक्यं द्विपदां वरिष्ठं नारायणं लोकहिताधिवासम् ॥ १ ॥
यदर्थमात्मप्रभवेह जन्म तवोत्तमं धर्मगृहे चतुर्धा ।तत्साध्यतां लोकहितार्थमद्य गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ॥ २ ॥
वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् ।पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् ॥ ३ ॥
गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम् ।तं चादिदेवं सततं प्रपन्न एकान्तभावेन वृणोम्यजस्रम् ।एभिर्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमीशम् ॥ ४ ॥
तत्पारमेष्ठ्यस्य वचो निशम्य नारायणः सात्वतधर्मगोप्ता ।गच्छेति तं नारदमुक्तवान्स संपूजयित्वात्मविधिक्रियाभिः ॥ ५ ॥
ततो विसृष्टः परमेष्ठिपुत्रः सोऽभ्यर्चयित्वा तमृषिं पुराणम् ।खमुत्पपातोत्तमवेगयुक्तस्ततोऽधिमेरौ सहसा निलिल्ये ॥ ६ ॥
तत्रावतस्थे च मुनिर्मुहूर्तमेकान्तमासाद्य गिरेः स शृङ्गे ।आलोकयन्नुत्तरपश्चिमेन ददर्श चात्यद्भुतरूपयुक्तम् ॥ ७ ॥
क्षीरोदधेरुत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ।मेरोः सहस्रैः स हि योजनानां द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः ॥ ८ ॥
अतीन्द्रियाश्चानशनाश्च तत्र निष्पन्दहीनाः सुसुगन्धिनश्च ।श्वेताः पुमांसो गतसर्वपापाश्चक्षुर्मुषः पापकृतां नराणाम् ॥ ९ ॥
वज्रास्थिकायाः सममानोन्माना दिव्यान्वयरूपाः शुभसारोपेताः ।छत्राकृतिशीर्षा मेघौघनिनादाः सत्पुष्करचतुष्का राजीवशतपादाः ॥ १० ॥
षष्ट्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दंष्ट्राभिर्ये ।जिह्वाभिर्ये विष्वग्वक्त्रं लेलिह्यन्ते सूर्यप्रख्यम् ॥ ११ ॥
भक्त्या देवं विश्वोत्पन्नं यस्मात्सर्वे लोकाः सूताः ।वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य विसर्गाः ॥ १२ ॥
युधिष्ठिर उवाच ।अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ।कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ॥ १३ ॥
ये विमुक्ता भवन्तीह नरा भरतसत्तम ।तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ॥ १४ ॥
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे ।त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् ॥ १५ ॥
भीष्म उवाच ।विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ ।सैषा तव हि वक्तव्या कथासारो हि स स्मृतः ॥ १६ ॥
राजोपरिचरो नाम बभूवाधिपतिर्भुवः ।आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् ॥ १७ ॥
धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः ।साम्राज्यं तेन संप्राप्तं नारायणवरात्पुरा ॥ १८ ॥
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् ।पूजयामास देवेशं तच्छेषेण पितामहान् ॥ १९ ॥
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः ।शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः ।सर्वभावेन भक्तः स देवदेवं जनार्दनम् ॥ २० ॥
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन ।एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम् ॥ २१ ॥
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च ।एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा ॥ २२ ॥
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः ।सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ॥ २३ ॥
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ।प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् ॥ २४ ॥
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः ।नानृता वाक्समभवन्मनो दुष्टं न चाभवत् ।न च कायेन कृतवान्स पापं परमण्वपि ॥ २५ ॥
ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः ।तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ॥ २६ ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ॥ २७ ॥
सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः ।एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् ॥ २८ ॥
एकाग्रमनसो दान्ता मुनयः संयमे रताः ।इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।लोकान्संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ॥ २९ ॥
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः ।मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ॥ ३० ॥
आराध्य तपसा देवं हरिं नारायणं प्रभुम् ।दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥ ३१ ॥
नारायणानुशास्ता हि तदा देवी सरस्वती ।विवेश तानृषीन्सर्वाँल्लोकानां हितकाम्यया ॥ ३२ ॥
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः ।शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ॥ ३३ ॥
आदावेव हि तच्छास्त्रमोंकारस्वरभूषितम् ।ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ ॥ ३४ ॥
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः ।ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ॥ ३५ ॥
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् ।लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥ ३६ ॥
प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति ।ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ ३७ ॥
तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः ।रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा ॥ ३८ ॥
सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च ।सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ॥ ३९ ॥
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः ।सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् ॥ ४० ॥
भविष्यति प्रमाणं वै एतन्मदनुशासनम् ।अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम् ॥ ४१ ॥
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः ।तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ॥ ४२ ॥
स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते ।बृहस्पतिमते चैव लोकेषु प्रविचारिते ॥ ४३ ॥
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः ।बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ॥ ४४ ॥
स हि मद्भावितो राजा मद्भक्तश्च भविष्यति ।तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति ॥ ४५ ॥
एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसंज्ञितम् ।एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् ॥ ४६ ॥
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ ।स च राजा श्रिया युक्तो भविष्यति महान्वसुः ॥ ४७ ॥
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् ।अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया ॥ ४८ ॥
एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः ।विसृज्य तानृषीन्सर्वान्कामपि प्रस्थितो दिशम् ॥ ४९ ॥
ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः ।प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् ॥ ५० ॥
उत्पन्नेऽऽङ्गिरसे चैव युगे प्रथमकल्पिते ।साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ ॥ ५१ ॥
जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः ।धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥ ५२ ॥
« »