Click on words to see what they mean.

भीष्म उवाच ।ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते ।बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥ १ ॥
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः ।एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥ २ ॥
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ।अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ॥ ३ ॥
स राजा भावितः पूर्वं दैवेन विधिना वसुः ।पालयामास पृथिवीं दिवमाखण्डलो यथा ॥ ४ ॥
तस्य यज्ञो महानासीदश्वमेधो महात्मनः ।बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥ ५ ॥
प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः ।एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ ६ ॥
धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू ।ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥ ७ ॥
ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः ।कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः ॥ ८ ॥
आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः ।कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ।संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ ॥ ९ ॥
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् ।अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ।आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः ॥ १० ॥
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ।साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥ ११ ॥
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् ।अदृश्येन हृतो भागो देवेन हरिमेधसा ॥ १२ ॥
बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः ।आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत् ॥ १३ ॥
उवाच चोपरिचरं मया भागोऽयमुद्यतः ।ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥ १४ ॥
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह ।किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ॥ १५ ॥
ततः स तं समुद्धूतं भूमिपालो महान्वसुः ।प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥ १६ ॥
ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि ।नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः ॥ १७ ॥
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः ।न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते ।यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १८ ॥
एकतद्वितत्रिता ऊचुः ।वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः ।गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥ १९ ॥
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् ।एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥ २० ॥
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः ।स देशो यत्र नस्तप्तं तपः परमदारुणम् ।कथं पश्येमहि वयं देवं नारायणं त्विति ॥ २१ ॥
ततो व्रतस्यावभृथे वागुवाचाशरीरिणी ।सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ॥ २२ ॥
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् ।क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ॥ २३ ॥
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ।एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ॥ २४ ॥
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् ।अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ॥ २५ ॥
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः ।गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥ २६ ॥
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् ।यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे ॥ २७ ॥
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः ।ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत् ॥ २८ ॥
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः ।ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ॥ २९ ॥
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा ।ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ॥ ३० ॥
व्रतावसाने सुशुभान्नरान्ददृशिरे वयम् ।श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ॥ ३१ ॥
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान् ।मानसो नाम स जपो जप्यते तैर्महात्मभिः ।तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥ ३२ ॥
या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये ।एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह ॥ ३३ ॥
तेजोनिवासः स द्वीप इति वै मेनिरे वयम् ।न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥ ३४ ॥
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् ।सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥ ३५ ॥
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् ।कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ॥ ३६ ॥
ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् ।बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥ ३७ ॥
वयं तु तेजसा तस्य सहसा हृतचेतसः ।न किंचिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः ॥ ३८ ॥
एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः ।जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३९ ॥
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ।इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः ॥ ४० ॥
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः ।दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥ ४१ ॥
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः ।नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ।वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥ ४२ ॥
मारुते संनिवृत्ते च बलौ च प्रतिपादिते ।चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर ॥ ४३ ॥
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु ।अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् ॥ ४४ ॥
तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः ।नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥ ४५ ॥
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् ।उवाच खस्थं किमपि भूतं तत्राशरीरकम् ॥ ४६ ॥
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः ।दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः ॥ ४७ ॥
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् ।न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन ॥ ४८ ॥
कामं कालेन महता एकान्तित्वं समागतैः ।शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ॥ ४९ ॥
महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः ।इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ॥ ५० ॥
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः ।सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥ ५१ ॥
ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप ।तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा ॥ ५२ ॥
एवं सुतपसा चैव हव्यकव्यैस्तथैव च ।देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ।नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ॥ ५३ ॥
भीष्म उवाच ।एवमेकतवाक्येन द्वितत्रितमतेन च ।अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः ।समानीय ततो यज्ञं दैवतं समपूजयत् ॥ ५४ ॥
समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः ।ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥ ५५ ॥
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः ।नारायणपरो भूत्वा नारायणपदं जगौ ॥ ५६ ॥
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ।महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ।परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥ ५७ ॥
« »