Click on words to see what they mean.

भीष्म उवाच ।इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः ।प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् ॥ १ ॥
तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः ।ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥ २ ॥
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते ।ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥ ३ ॥
उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च ।प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥ ४ ॥
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः ।निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह ॥ ५ ॥
न बभासे सहस्रांशुर्न जज्वाल च पावकः ।ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥ ६ ॥
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च ।ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥ ७ ॥
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे ।संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे ॥ ८ ॥
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत ।उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह ॥ ९ ॥
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ।ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते ।अदृश्येतां महाराज तदद्भुतमिवाभवत् ॥ १० ॥
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः ।न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥ ११ ॥
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् ।गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥ १२ ॥
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् ।साधु साध्विति तत्रासीन्नादः सर्वत्र भारत ॥ १३ ॥
स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा ।यक्षराक्षससंघैश्च विद्याधरगणैस्तथा ॥ १४ ॥
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः ।आसीत्किल महाराज शुकाभिपतने तदा ॥ १५ ॥
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् ।शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ॥ १६ ॥
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः ।शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥ १७ ॥
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः ।उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥ १८ ॥
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् ।दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥ १९ ॥
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः ।निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ २० ॥
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् ।शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा ॥ २१ ॥
ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा ।स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै ॥ २२ ॥
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः ।प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥ २३ ॥
तत एकाक्षरं नादं भो इत्येव समीरयन् ।प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥ २४ ॥
ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् ।गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति ॥ २५ ॥
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा ।गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम् ॥ २६ ॥
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥ २७ ॥
ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः ।आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः ॥ २८ ॥
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे ।वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम् ॥ २९ ॥
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा ।सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह ॥ ३० ॥
तं देवगन्धर्ववृतो महर्षिगणपूजितः ।पिनाकहस्तो भगवानभ्यागच्छत शंकरः ॥ ३१ ॥
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः ।पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा ॥ ३२ ॥
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह ।वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः ॥ ३३ ॥
स तथालक्षणो जातस्तपसा तव संभृतः ।मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः ॥ ३४ ॥
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः ।दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥ ३५ ॥
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः ।तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥ ३६ ॥
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा ।द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥ ३७ ॥
सोऽनुनीतो भगवता स्वयं रुद्रेण भारत ।छायां पश्यन्समावृत्तः स मुनिः परया मुदा ॥ ३८ ॥
इति जन्म गतिश्चैव शुकस्य भरतर्षभ ।विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि ॥ ३९ ॥
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा ।व्यासश्चैव महायोगी संजल्पेषु पदे पदे ॥ ४० ॥
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् ।धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥ ४१ ॥
« »