Click on words to see what they mean.

भीष्म उवाच ।ततः स राजा जनको मन्त्रिभिः सह भारत ।पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च ॥ १ ॥
आसनं च पुरस्कृत्य रत्नानि विविधानि च ।शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् ॥ २ ॥
स तदासनमादाय बहुरत्नविभूषितम् ।स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ॥ ३ ॥
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः ।प्रददौ गुरुपुत्राय शुकाय परमार्चितम् ॥ ४ ॥
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् ।पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत् ।स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि ॥ ५ ॥
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः ।गां चैव समनुज्ञाय राजानमनुमान्य च ॥ ६ ॥
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् ।अनामयं च राजेन्द्र शुकः सानुचरस्य ह ॥ ७ ॥
अनुज्ञातः स तेनाथ निषसाद सहानुगः ।उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः ॥ ८ ॥
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः ।किमागमनमित्येव पर्यपृच्छत पार्थिवः ॥ ९ ॥
शुक उवाच ।पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ।विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥ १० ॥
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः ।प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् ॥ ११ ॥
सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः ।तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥ १२ ॥
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ।कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥ १३ ॥
जनक उवाच ।यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु ।कृतोपनयनस्तात भवेद्वेदपरायणः ॥ १४ ॥
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो ।देवतानां पितॄणां चाप्यनृणश्चानसूयकः ॥ १५ ॥
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च ।अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ॥ १६ ॥
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् ।अनसूयुर्यथान्यायमाहिताग्निस्तथैव च ॥ १७ ॥
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् ।तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ॥ १८ ॥
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ १९ ॥
शुक उवाच ।उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते ।किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च ॥ २० ॥
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ।यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥ २१ ॥
जनक उवाच ।न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् ।न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः ॥ २२ ॥
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते ।विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥ २३ ॥
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ।पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकथः ॥ २४ ॥
अनेन क्रमयोगेन बहुजातिषु कर्मणा ।कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥ २५ ॥
भावितैः कारणैश्चायं बहुसंसारयोनिषु ।आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ २६ ॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ॥ २७ ॥
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् ।सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥ २८ ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।संपश्यन्नोपलिप्येत जले वारिचरो यथा ॥ २९ ॥
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते ।विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः ॥ ३० ॥
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना ।धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ ३१ ॥
ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् ।स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा ॥ ३२ ॥
न बिभेति परो यस्मान्न बिभेति पराच्च यः ।यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ ३३ ॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ३४ ॥
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् ।त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥ ३५ ॥
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् ।समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा ॥ ३६ ॥
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति ।काञ्चनं चायसं चैव सुखदुःखे तथैव च ॥ ३७ ॥
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् ।जीवितं मरणं चैव ब्रह्म संपद्यते तदा ॥ ३८ ॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः ।तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ ३९ ॥
तमःपरिगतं वेश्म यथा दीपेन दृश्यते ।तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ ४० ॥
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर ।यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् ॥ ४१ ॥
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः ।गुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥ ४२ ॥
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने ।ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥ ४३ ॥
अधिकं तव विज्ञानमधिका च गतिस्तव ।अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे ॥ ४४ ॥
बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् ।उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ॥ ४५ ॥
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः ।विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ॥ ४६ ॥
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः ।व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ॥ ४७ ॥
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा ।नौत्सुक्यं नृत्तगीतेषु न राग उपजायते ॥ ४८ ॥
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् ।पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥ ४९ ॥
अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः ।आस्थितं परमं मार्गमक्षयं तमनामयम् ॥ ५० ॥
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः ।तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥ ५१ ॥
« »