Click on words to see what they mean.

भीष्म उवाच ।एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः ।आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ १ ॥
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः ।शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥ २ ॥
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा ।हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम् ॥ ३ ॥
तमप्सरोगणाकीर्णं गीतस्वननिनादितम् ।किंनराणां समूहैश्च भृङ्गराजैस्तथैव च ॥ ४ ॥
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ।चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ।राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ॥ ५ ॥
पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति ।चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ।यत्र नित्यं समायान्ति लोकस्य हितकाम्यया ॥ ६ ॥
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ।यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः ॥ ७ ॥
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ।यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा ॥ ८ ॥
योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ।यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् ॥ ९ ॥
सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति ।तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति ॥ १० ॥
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् ।अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् ।किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥ ११ ॥
स नामृष्यत तं क्षेपमवैक्षत च पावकिम् ।स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ।कम्पयामास सव्येन पाणिना पुरुषोत्तमः ॥ १२ ॥
शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा ।मेदिनी कम्पिता सर्वा सशैलवनकानना ॥ १३ ॥
शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता ।रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना ॥ १४ ॥
तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत् ।पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति ॥ १५ ॥
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ।जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत् ॥ १६ ॥
नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि ।विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः ॥ १७ ॥
यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ।तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः ॥ १८ ॥
पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः ।आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः ॥ १९ ॥
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ।दशयोजनविस्तारमग्निज्वालासमावृतम् ॥ २० ॥
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ।सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः ॥ २१ ॥
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ।देवान्संतापयंस्तत्र महादेवो धृतव्रतः ॥ २२ ॥
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ।विविक्ते पर्वततटे पाराशर्यो महातपाः ।वेदानध्यापयामास व्यासः शिष्यान्महातपाः ॥ २३ ॥
सुमन्तुं च महाभागं वैशंपायनमेव च ।जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥ २४ ॥
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः ।तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम् ।आरणेयो विशुद्धात्मा नभसीव दिवाकरः ॥ २५ ॥
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् ।ददर्श सुतमायान्तं दिवाकरसमप्रभम् ॥ २६ ॥
असज्जमानं वृक्षेषु शैलेषु विषमेषु च ।योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥ २७ ॥
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः ।यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥ २८ ॥
ततो निवेदयामास पित्रे सर्वमशेषतः ।शुको जनकराजेन संवादं प्रीतमानसः ॥ २९ ॥
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् ।उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ॥ ३० ॥
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे ।वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः ॥ ३१ ॥
वेदेषु निष्ठां संप्राप्य साङ्गेष्वतितपस्विनः ।अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥ ३२ ॥
महता श्रेयसा युक्ता यशसा च स्म वर्धिताः ।एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम् ॥ ३३ ॥
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह ।उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ॥ ३४ ॥
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः ।पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥ ३५ ॥
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् ।यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ॥ ३६ ॥
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा ।षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ॥ ३७ ॥
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः ।इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ॥ ३८ ॥
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् ।पराशरात्मजो धीमान्परलोकार्थचिन्तकः ।उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः ॥ ३९ ॥
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् ।ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति ॥ ४० ॥
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ।नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि ॥ ४१ ॥
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः ।नापरीक्षितचारित्रे विद्या देया कथंचन ॥ ४२ ॥
यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः ।परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ॥ ४३ ॥
न नियोज्याश्च वः शिष्या अनियोगे महाभये ।यथामति यथापाठं तथा विद्या फलिष्यति ॥ ४४ ॥
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ॥ ४५ ॥
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा ॥ ४६ ॥
यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम् ।सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ॥ ४७ ॥
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति ।तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ ४८ ॥
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति ।उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् ॥ ४९ ॥
« »