Click on words to see what they mean.

भीष्म उवाच ।स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ।प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ॥ १ ॥
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे ।यथा मे मनसः शान्तिः परमा संभवेत्प्रभो ॥ २ ॥
श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ।अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि ॥ ३ ॥
पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः ।योगशास्त्रं च निखिलं कापिलं चैव भारत ॥ ४ ॥
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ।मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् ॥ ५ ॥
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ।स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः ॥ ६ ॥
पितुर्नियोगादगमन्मैथिलं जनकं नृपम् ।प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥ ७ ॥
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः ।न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥ ८ ॥
आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा ।नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥ ९ ॥
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ।स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ॥ १० ॥
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ।याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ॥ ११ ॥
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ।पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् ॥ १२ ॥
स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च ।बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा ॥ १३ ॥
मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा ।क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत् ॥ १४ ॥
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् ।आर्यावर्तमिमं देशमाजगाम महामुनिः ॥ १५ ॥
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् ।अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव ॥ १६ ॥
पत्तनानि च रम्याणि स्फीतानि नगराणि च ।रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति ॥ १७ ॥
उद्यानानि च रम्याणि तथैवायतनानि च ।पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः ॥ १८ ॥
सोऽचिरेणैव कालेन विदेहानाससाद ह ।रक्षितान्धर्मराजेन जनकेन महात्मना ॥ १९ ॥
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् ।पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान् ॥ २० ॥
स्फीतांश्च शालियवसैर्हंससारससेवितान् ।पद्मिनीभिश्च शतशः श्रीमतीभिरलंकृतान् ॥ २१ ॥
स विदेहानतिक्रम्य समृद्धजनसेवितान् ।मिथिलोपवनं रम्यमाससाद महर्द्धिमत् ॥ २२ ॥
हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम् ।पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ॥ २३ ॥
मनसा तं वहन्भारं तमेवार्थं विचिन्तयन् ।आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ॥ २४ ॥
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः ।स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ॥ २५ ॥
स राजमार्गमासाद्य समृद्धजनसंकुलम् ।पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ॥ २६ ॥
तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन् ।तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत ॥ २७ ॥
न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः ।प्रताम्यति ग्लायति वा नापैति च तथातपात् ॥ २८ ॥
तेषां तु द्वारपालानामेकः शोकसमन्वितः ।मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥ २९ ॥
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ।प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ॥ ३० ॥
तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन् ।छायायामातपे चैव समदर्शी महाद्युतिः ॥ ३१ ॥
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः ।प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः ॥ ३२ ॥
तत्रान्तःपुरसंबद्धं महच्चैत्ररथोपमम् ।सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥ ३३ ॥
तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम् ।अर्हमासनमादिश्य निश्चक्राम ततः पुनः ॥ ३४ ॥
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः ।सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥ ३५ ॥
संलापोल्लापकुशला नृत्तगीतविशारदाः ।स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ॥ ३६ ॥
कामोपचारकुशला भावज्ञाः सर्वकोविदाः ।परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन् ॥ ३७ ॥
पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च ।देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ॥ ३८ ॥
तस्य भुक्तवतस्तात तदन्तःपुरकाननम् ।सुरम्यं दर्शयामासुरेकैकश्येन भारत ॥ ३९ ॥
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम् ।उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा ॥ ४० ॥
आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत् ।वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ॥ ४१ ॥
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् ।स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः ॥ ४२ ॥
पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च ।निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ॥ ४३ ॥
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ।मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः ॥ ४४ ॥
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् ।स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥ ४५ ॥
अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः ।तां च रात्रिं नृपकुले वर्तयामास भारत ॥ ४६ ॥
« »