Click on words to see what they mean.

याज्ञवल्क्य उवाच ।तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च ।मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ॥ १ ॥
यथा संहरते जन्तून्ससर्ज च पुनः पुनः ।अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥ २ ॥
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा ।चोदयामास भगवानव्यक्तोऽहंकृतं नरम् ॥ ३ ॥
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ॥ ४ ॥
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा ।जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप ॥ ५ ॥
एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् ।कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥ ६ ॥
जगद्दग्ध्वामितबलः केवलं जगतीं ततः ।अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥ ७ ॥
ततः कालाग्निमासाद्य तदम्भो याति संक्षयम् ।विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् ॥ ८ ॥
तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् ।ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥ ९ ॥
भक्षयामास बलवान्वायुरष्टात्मको बली ।विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ १० ॥
तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना ।आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ॥ ११ ॥
मनो ग्रसति सर्वात्मा सोऽहंकारः प्रजापतिः ।अहंकारं महानात्मा भूतभव्यभविष्यवित् ॥ १२ ॥
तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः ।अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १३ ॥
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ।सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ १४ ॥
हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः ।अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ॥ १५ ॥
ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।भूतभव्यमनुष्याणां स्रष्टारमनघं तथा ॥ १६ ॥
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः ।अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ १७ ॥
« »