Click on words to see what they mean.

याज्ञवल्क्य उवाच ।पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ १ ॥
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः ।विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ २ ॥
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् ।अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥ ३ ॥
हस्तावध्यात्ममित्याहुर्यथासांख्यनिदर्शनम् ।कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ ४ ॥
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् ।वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ ५ ॥
चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥ ६ ॥
श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥ ७ ॥
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् ।रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ ८ ॥
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥ ९ ॥
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः ।स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥ १० ॥
मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् ।मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥ ११ ॥
अहंकारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् ।अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् ॥ १२ ॥
बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम् ।बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥ १३ ॥
एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता ।आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥ १४ ॥
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया ।क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ॥ १५ ॥
यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते ।प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ १६ ॥
सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च ।सुखं शुद्धित्वमारोग्यं संतोषः श्रद्दधानता ॥ १७ ॥
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता ।समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥ १८ ॥
शौचमार्जवमाचारमलौल्यं हृद्यसंभ्रमः ।इष्टानिष्टवियोगानां कृतानामविकत्थनम् ॥ १९ ॥
दानेन चानुग्रहणमस्पृहार्थे परार्थता ।सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥ २० ॥
रजोगुणानां संघातो रूपमैश्वर्यविग्रहे ।अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥ २१ ॥
परापवादेषु रतिर्विवादानां च सेवनम् ।अहंकारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥ २२ ॥
परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा ।भेदः परुषता चैव कामक्रोधौ मदस्तथा ।दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥ २३ ॥
तामसानां तु संघातं प्रवक्ष्याम्युपधार्यताम् ।मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसंज्ञितम् ॥ २४ ॥
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते ।तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥ २५ ॥
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता ।गन्धवासो विहारेषु शयनेष्वासनेषु च ॥ २६ ॥
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः ।नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ २७ ॥
« »