Click on words to see what they mean.

याज्ञवल्क्य उवाच ।अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे ।पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ १ ॥
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप ।सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ २ ॥
ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् ।सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ ३ ॥
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः ।संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ ४ ॥
द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते ।तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ ५ ॥
एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः ।दश कल्पसहस्राणि पादोनान्यहरुच्यते ।रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ॥ ६ ॥
सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा ।चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ।ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥ ७ ॥
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः ।चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥ ८ ॥
परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ९ ॥
एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः ।पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ १० ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।यैराविष्टानि भूतानि अहन्यहनि पार्थिव ॥ ११ ॥
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः ।अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ॥ १२ ॥
ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः ।इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ॥ १३ ॥
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते ।रात्रिरेतावती चैव मनसश्च नराधिप ॥ १४ ॥
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः ।न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥ १५ ॥
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा ।मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ १६ ॥
मनस्युपरते राजन्निन्द्रियोपरमो भवेत् ।न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ।एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् ॥ १७ ॥
इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते ।एतद्विशन्ति भूतानि सर्वाणीह महायशाः ॥ १८ ॥
« »