Click on words to see what they mean.

वसिष्ठ उवाच ।अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु ।गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥ १ ॥
अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप ।आत्मानं बहुधा कृत्वा तान्येव च विचक्षते ॥ २ ॥
एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते ।अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥ ३ ॥
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम् ।कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥ ४ ॥
बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम् ।बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ॥ ५ ॥
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् ।अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ॥ ६ ॥
पञ्चविंशं महात्मानं न चासावपि बुध्यते ।षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् ॥ ७ ॥
सततं पञ्चविंशं च चतुर्विंशं च बुध्यते ।दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती ॥ ८ ॥
अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम् ।केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ॥ ९ ॥
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ।तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ॥ १० ॥
बुध्यते च परां बुद्धिं विशुद्धाममलां यदा ।षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत् ॥ ११ ॥
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् ।निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ॥ १२ ॥
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् ।केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ॥ १३ ॥
एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ।तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद ।पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ १४ ॥
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् ।एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् ॥ १५ ॥
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः ।केवलेन बलेनैव समतां यात्यसंशयम् ॥ १६ ॥
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् ।एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥ १७ ॥
चेतनेन समेतस्य पञ्चविंशतिकस्य च ।एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥ १८ ॥
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल ।सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ १९ ॥
निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः ।विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ।चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ॥ २० ॥
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥ २१ ॥
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः ।मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते ॥ २२ ॥
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः ।एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् ॥ २३ ॥
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते ।एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ॥ २४ ॥
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ।परेण परधर्मा च भवत्येष समेत्य वै ॥ २५ ॥
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् ।विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥ २६ ॥
नियोगधर्मिणा चैव नियोगात्मा भवत्यपि ।विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥ २७ ॥
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् ।विमलात्मा च भवति समेत्य विमलात्मना ॥ २८ ॥
केवलात्मा तथा चैव केवलेन समेत्य वै ।स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥ २९ ॥
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।अमत्सरत्वं प्रतिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम् ॥ ३० ॥
न वेदनिष्ठस्य जनस्य राजन्प्रदेयमेतत्परमं त्वया भवेत् ।विवित्समानाय विबोधकारकं प्रबोधहेतोः प्रणतस्य शासनम् ॥ ३१ ॥
न देयमेतच्च तथानृतात्मने शठाय क्लीबाय न जिह्मबुद्धये ।न पण्डितज्ञानपरोपतापिने देयं त्वयेदं विनिबोध यादृशे ॥ ३२ ॥
श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम् ।विशुद्धयोगाय बुधाय चैव क्रियावतेऽथ क्षमिणे हिताय ॥ ३३ ॥
विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताय ।विजानते चैव न चाहितक्षमे दमे च शक्ताय शमे च देहिनाम् ॥ ३४ ॥
एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः ।न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात् ॥ ३५ ॥
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्नदेयं त्विदमव्रताय ।जितेन्द्रियायैतदसंशयं ते भवेत्प्रदेयं परमं नरेन्द्र ॥ ३६ ॥
कराल मा ते भयमस्तु किंचिदेतच्छ्रुतं ब्रह्म परं त्वयाद्य ।यथावदुक्तं परमं पवित्रं निःशोकमत्यन्तमनादिमध्यम् ॥ ३७ ॥
अगाधजन्मामरणं च राजन्निरामयं वीतभयं शिवं च ।समीक्ष्य मोहं त्यज चाद्य सर्वं ज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥ ३८ ॥
अवाप्तमेतद्धि पुरा सनातनाद्धिरण्यगर्भाद्गदतो नराधिप ।प्रसाद्य यत्नेन तमुग्रतेजसं सनातनं ब्रह्म यथाद्य वै त्वया ॥ ३९ ॥
पृष्टस्त्वया चास्मि यथा नरेन्द्र तथा मयेदं त्वयि चोक्तमद्य ।तथावाप्तं ब्रह्मणो मे नरेन्द्र महज्ज्ञानं मोक्षविदां पुराणम् ॥ ४० ॥
भीष्म उवाच ।एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः ।पञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥ ४१ ॥
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च ।नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः ॥ ४२ ॥
एतन्निःश्रेयसकरं ज्ञानानां ते परं मया ।कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥ ४३ ॥
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना ।वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥ ४४ ॥
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् ।मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ॥ ४५ ॥
येन क्षराक्षरे वित्ते न भयं तस्य विद्यते ।विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥ ४६ ॥
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् ।प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ ४७ ॥
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते ।यदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥ ४८ ॥
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते ।अहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥ ४९ ॥
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् ।तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥ ५० ॥
« »