Click on words to see what they mean.

वसिष्ठ उवाच ।सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम ।विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ १ ॥
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै ।सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् ॥ २ ॥
परस्परमविद्यां वै तन्निबोधानुपूर्वशः ।यथोक्तमृषिभिस्तात सांख्यस्यास्य निदर्शनम् ॥ ३ ॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ ४ ॥
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ॥ ५ ॥
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर ॥ ६ ॥
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् ।विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ ७ ॥
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् ।सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ॥ ८ ॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् ।तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ ९ ॥
विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः ।अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ १० ॥
उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ ।कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः ॥ ११ ॥
अनादिनिधनावेतावुभावेवेश्वरौ मतौ ।तत्त्वसंज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः ॥ १२ ॥
सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम् ।तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ १३ ॥
गुणानां महदादीनामुत्पद्यति परस्परम् ।अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ॥ १४ ॥
यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत् ।तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ॥ १५ ॥
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् ।क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते ॥ १६ ॥
तदाक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता ।निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् ॥ १७ ॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये ।प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ १८ ॥
क्षरो भवत्येष यदा तदा गुणवतीमथ ।प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः ॥ १९ ॥
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २० ॥
तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत् ।प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते ॥ २१ ॥
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।पश्यते चापरं पश्यं तदा पश्यन्न संज्वरेत् ॥ २२ ॥
किं मया कृतमेतावद्योऽहं कालमिमं जनम् ।मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा ॥ २३ ॥
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् ।मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥ २४ ॥
मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते ।आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् ॥ २५ ॥
ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः ।अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ २६ ॥
अयमत्र भवेद्बन्धुरनेन सह मोक्षणम् ।साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम् ॥ २७ ॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।अयं हि विमलो व्यक्तमहमीदृशकस्तथा ॥ २८ ॥
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान् ।ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम् ॥ २९ ॥
अनयाहं वशीभूतः कालमेतं न बुद्धवान् ।उच्चमध्यमनीचानां तामहं कथमावसे ॥ ३० ॥
समानयानया चेह सहवासमहं कथम् ।गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ॥ ३१ ॥
सहवासं न यास्यामि कालमेतद्धि वञ्चनात् ।वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया ॥ ३२ ॥
न चायमपराधोऽस्या अपराधो ह्ययं मम ।योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥ ३३ ॥
ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् ।अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ॥ ३४ ॥
प्रकृतेरनयत्वेन तासु तास्विह योनिषु ।निर्ममस्य ममत्वेन किं कृतं तासु तासु च ।योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा ॥ ३५ ॥
न ममात्रानया कार्यमहंकारकृतात्मया ।आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ।इदानीमेष बुद्धोऽस्मि निर्ममो निरहंकृतः ॥ ३६ ॥
ममत्वमनया नित्यमहंकारकृतात्मकम् ।अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ॥ ३७ ॥
अनेन साम्यं यास्यामि नानयाहमचेतसा ।क्षमं मम सहानेन नैकत्वमनया सह ।एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् ॥ ३८ ॥
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् ।अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ।निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥ ३९ ॥
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् ।मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात् ॥ ४० ॥
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा ।प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ ४१ ॥
सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् ।यदेव शास्त्रं सांख्योक्तं योगदर्शनमेव तत् ॥ ४२ ॥
प्रबोधनकरं ज्ञानं सांख्यानामवनीपते ।विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ ४३ ॥
बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः ।अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ॥ ४४ ॥
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप ।सांख्यानां तु परं तत्र यथावदनुवर्णितम् ॥ ४५ ॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ॥ ४६ ॥
« »