Click on words to see what they mean.

वसिष्ठ उवाच ।एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ।सर्गकोटिसहस्राणि पतनान्तानि गच्छति ॥ १ ॥
धाम्ना धामसहस्राणि मरणान्तानि गच्छति ।तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥ २ ॥
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ।लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥ ३ ॥
कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते ।नित्यमेतद्विजानीहि सोमः षोडशमी कला ॥ ४ ॥
कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान् ।धाम तस्योपयुञ्जन्ति भूय एव तु जायते ॥ ५ ॥
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ।न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥ ६ ॥
एवं तां क्षपयित्वा हि जायते नृपसत्तम ।सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥ ७ ॥
तदेवं षोडशकलं देहमव्यक्तसंज्ञकम् ।ममायमिति मन्वानस्तत्रैव परिवर्तते ॥ ८ ॥
पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात् ।विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् ॥ ९ ॥
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव ।अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् ॥ १० ॥
तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम ।प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥ ११ ॥
करालजनक उवाच ।अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते ।स्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते ॥ १२ ॥
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत ।ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ॥ १३ ॥
अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात् ।रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ॥ १४ ॥
रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात् ।ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥ १५ ॥
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा ।अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ १६ ॥
त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम ।एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ १७ ॥
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥ १८ ॥
एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ ।पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥ १९ ॥
अथ वानन्तरकृतं किंचिदेव निदर्शनम् ।तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ॥ २० ॥
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् ।अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् ॥ २१ ॥
वसिष्ठ उवाच ।यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् ।एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ॥ २२ ॥
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः ।न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर ॥ २३ ॥
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४ ॥
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २५ ॥
ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति ।यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ २६ ॥
यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान् ।स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २७ ॥
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः ।सोपहासात्मतामेति यस्माच्चैवात्मवानपि ॥ २८ ॥
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।याथातथ्येन सांख्येषु योगेषु च महात्मसु ॥ २९ ॥
यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते ।एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ ३० ॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।एतदैन्द्रियकं तात यद्भवानिदमाह वै ॥ ३१ ॥
द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा ।देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ ३२ ॥
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः ।कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ ३३ ॥
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च ।एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च ॥ ३४ ॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ॥ ३५ ॥
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् ।नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ॥ ३६ ॥
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः ।यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ॥ ३७ ॥
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते ।पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः ॥ ३८ ॥
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः ।केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते ॥ ३९ ॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ ४० ॥
यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते ।तदा स गुणवानेव परमेणानुपश्यति ॥ ४१ ॥
यत्तद्बुद्धेः परं प्राहुः सांख्या योगाश्च सर्वशः ।बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ॥ ४२ ॥
अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम् ।निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ ४३ ॥
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ ४४ ॥
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः ।बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा ॥ ४५ ॥
एतन्निदर्शनं सम्यगसम्यगनुदर्शनम् ।बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम ॥ ४६ ॥
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ ४७ ॥
पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते ।एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥ ४८ ॥
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम् ।पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः ॥ ४९ ॥
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् ।वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ ५० ॥
« »