Click on words to see what they mean.

करालजनक उवाच ।नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम ।पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम् ॥ १ ॥
तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ ।स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ २ ॥
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् ।तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥ ३ ॥
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ॥ ४ ॥
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च ।सांख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ॥ ५ ॥
वसिष्ठ उवाच ।हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि ।योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥ ६ ॥
योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ॥ ७ ॥
एकाग्रता च मनसः प्राणायामस्तथैव च ।प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा ॥ ८ ॥
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप ।त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः ॥ ९ ॥
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥ १० ॥
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ ।तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥ ११ ॥
तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम ।द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ १२ ॥
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः ।पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि ॥ १३ ॥
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ १४ ॥
स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः ।बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ॥ १५ ॥
न शृणोति न चाघ्राति न रस्यति न पश्यति ।न च स्पर्शं विजानाति न संकल्पयते मनः ॥ १६ ॥
न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत् ।तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ १७ ॥
निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते ।निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ॥ १८ ॥
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते ।हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ १९ ॥
विधूम इव सप्तार्चिरादित्य इव रश्मिमान् ।वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि ॥ २० ॥
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम् ॥ २१ ॥
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् ।तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ २२ ॥
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् ।महतस्तमसस्तात पारे तिष्ठन्नतामसः ॥ २३ ॥
स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः ।विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञितः ॥ २४ ॥
योगमेतद्धि योगानां मन्ये योगस्य लक्षणम् ।एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम् ॥ २५ ॥
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया ।सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥ २६ ॥
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः ।तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥ २७ ॥
अहंकारस्तु महतस्तृतीयमिति नः श्रुतम् ।पञ्च भूतान्यहंकारादाहुः सांख्यानुदर्शिनः ॥ २८ ॥
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश ।पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ॥ २९ ॥
एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः ।सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः ॥ ३० ॥
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते ।लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ॥ ३१ ॥
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः ।गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ ३२ ॥
सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम ।एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् ।एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः ॥ ३३ ॥
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ।एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् ।एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ ३४ ॥
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् ।तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ॥ ३५ ॥
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ ३६ ॥
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते ।अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ ३७ ॥
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते ।क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ॥ ३८ ॥
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते ।ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ ३९ ॥
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् ।अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ ४० ॥
सांख्यदर्शनमेतावत्परिसंख्यानदर्शनम् ।सांख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते ॥ ४१ ॥
तत्त्वानि च चतुर्विंशत्परिसंख्याय तत्त्वतः ।सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ ४२ ॥
पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः ।यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ॥ ४३ ॥
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः ।एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ ४४ ॥
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ॥ ४५ ॥
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः ।विद्यतेऽक्षरभावत्वादपरस्परमव्ययम् ॥ ४६ ॥
पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम् ।तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम ॥ ४७ ॥
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् ।व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ॥ ४८ ॥
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः ।य एनमभिजानन्ति न भयं तेषु विद्यते ॥ ४९ ॥
« »