Click on words to see what they mean.

वसिष्ठ उवाच ।एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते ।देहाद्देहसहस्राणि तथा समभिपद्यते ॥ १ ॥
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि ।उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ॥ २ ॥
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च ।मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते ॥ ३ ॥
कोशकारो यथात्मानं कीटः समनुरुन्धति ।सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥ ४ ॥
द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु ।शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ ५ ॥
जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके ।श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि ॥ ६ ॥
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु ।उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ।अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ॥ ७ ॥
एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा ।मण्डूकशायी च तथा वीरासनगतस्तथा ॥ ८ ॥
चीरधारणमाकाशे शयनं स्थानमेव च ।इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ॥ ९ ॥
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ।वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ॥ १० ॥
विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः ।मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ॥ ११ ॥
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः ।सिंहचर्मपरीधानः पट्टवासास्तथैव च ॥ १२ ॥
कीटकावसनश्चैव चीरवासास्तथैव च ।वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ॥ १३ ॥
भोजनानि विचित्राणि रत्नानि विविधानि च ।एकवस्त्रान्तराशित्वमेककालिकभोजनम् ॥ १४ ॥
चतुर्थाष्टमकालश्च षष्ठकालिक एव च ।षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ॥ १५ ॥
सप्तरात्रदशाहारो द्वादशाहार एव च ।मासोपवासी मूलाशी फलाहारस्तथैव च ॥ १६ ॥
वायुभक्षोऽम्बुपिण्याकगोमयादन एव च ।गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ॥ १७ ॥
शैवालभोजनश्चैव तथाचामेन वर्तयन् ।वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः ॥ १८ ॥
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया ।चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ॥ १९ ॥
चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि ।उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च ॥ २० ॥
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ।विविधानि च जप्यानि विविधानि व्रतानि च ॥ २१ ॥
नियमान्सुविचित्रांश्च विविधानि तपांसि च ।यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ॥ २२ ॥
वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च ।दानं च विविधाकारं दीनान्धकृपणेष्वपि ॥ २३ ॥
अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान् ।सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ।प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ॥ २४ ॥
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः ।याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् ।यजनाध्ययने चैव यच्चान्यदपि किंचन ॥ २५ ॥
जन्ममृत्युविवादे च तथा विशसनेऽपि च ।शुभाशुभमयं सर्वमेतदाहुः क्रियापथम् ॥ २६ ॥
प्रकृतिः कुरुते देवी महाप्रलयमेव च ।दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति ॥ २७ ॥
रश्मिजालमिवादित्यस्तत्कालेन नियच्छति ।एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ॥ २८ ॥
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् ।एवमेव विकुर्वाणः सर्गप्रलयकर्मणी ॥ २९ ॥
क्रियाक्रियापथे रक्तस्त्रिगुणस्त्रिगुणातिगः ।क्रियाक्रियापथोपेतस्तथा तदिति मन्यते ॥ ३० ॥
एवं द्वंद्वान्यथैतानि वर्तन्ते मम नित्यशः ।ममैवैतानि जायन्ते बाधन्ते तानि मामिति ॥ ३१ ॥
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप ।मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ॥ ३२ ॥
भोक्तव्यानि मयैतानि देवलोकगतेन वै ।इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ ३३ ॥
सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम ।यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥ ३४ ॥
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् ।महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ ३५ ॥
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ।मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ॥ ३६ ॥
य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः ।तेन देवमनुष्येषु निरये चोपपद्यते ॥ ३७ ॥
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ।सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ॥ ३८ ॥
य एवं कुरुते कर्म शुभाशुभफलात्मकम् ।स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान् ॥ ३९ ॥
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ।प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ॥ ४० ॥
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ।त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ॥ ४१ ॥
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे ।तथैव पौरुषं लिङ्गमनुमानाद्धि पश्यति ॥ ४२ ॥
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ।व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ॥ ४३ ॥
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च ।वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह ।अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च ॥ ४४ ॥
निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्व्रणः ।अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ॥ ४५ ॥
असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः ।अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः ॥ ४६ ॥
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः ।अतपास्तप आत्मानमगतिर्गतिमात्मनः ॥ ४७ ॥
अभवो भवमात्मानमभयो भयमात्मनः ।अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते ॥ ४८ ॥
« »