Click on words to see what they mean.

पराशर उवाच ।एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ १ ॥
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते ।सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥ २ ॥
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥ ३ ॥
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥ ४ ॥
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।मोहजाता रतिर्नाम समुपैति नराधिप ॥ ५ ॥
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः ।लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥ ६ ॥
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् ।पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥ ७ ॥
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः ।बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥ ८ ॥
ततो मानेन संपन्नो रक्षन्नात्मपराजयम् ।करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥ ९ ॥
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् ।अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥ १० ॥
स्नेहायतननाशाच्च धननाशाच्च पार्थिव ।आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥ ११ ॥
निर्वेदादात्मसंबोधः संबोधाच्छास्त्रदर्शनम् ।शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥ १२ ॥
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥ १३ ॥
तपः सर्वगतं तात हीनस्यापि विधीयते ।जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥ १४ ॥
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥ १५ ॥
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥ १६ ॥
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥ १७ ॥
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा ।ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥ १८ ॥
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥ १९ ॥
कौशिकानि च वस्त्राणि शुभान्याभरणानि च ।वाहनासनयानानि सर्वं तत्तपसः फलम् ॥ २० ॥
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥ २१ ॥
शयनानि च मुख्यानि भोज्यानि विविधानि च ।अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥ २२ ॥
नाप्राप्यं तपसा किंचित्त्रैलोक्येऽस्मिन्परंतप ।उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥ २३ ॥
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् ।अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥ २४ ॥
असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥ २५ ॥
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति ।तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् ॥ २६ ॥
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते ।कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥ २७ ॥
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥ २८ ॥
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् ।फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥ २९ ॥
धर्मे तपसि दाने च विचिकित्सास्य जायते ।स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥ ३० ॥
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम ।स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ॥ ३१ ॥
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता ।रसने दर्शने घ्राणे श्रवणे च विशां पते ॥ ३२ ॥
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥ ३३ ॥
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः ।धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥ ३४ ॥
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ।प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥ ३५ ॥
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् ॥ ३६ ॥
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥ ३७ ॥
सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् ।दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥ ३८ ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ३९ ॥
« »