Click on words to see what they mean.

पराशर उवाच ।प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः ।वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः ।स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ॥ १ ॥
नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुरुच्यते ।क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः ।शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥ २ ॥
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् ।शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥ ३ ॥
रङ्गावतरणं चैव तथा रूपोपजीवनम् ।मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः ॥ ४ ॥
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥ ५ ॥
संसिद्धः पुरुषो लोके यदाचरति पापकम् ।मदेनाभिप्लुतमनास्तच्च नग्राह्यमुच्यते ॥ ६ ॥
श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः ।दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः ॥ ७ ॥
धर्म एव सदा नॄणामिह राजन्प्रशस्यते ।धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥ ८ ॥
तं धर्ममसुरास्तात नामृष्यन्त जनाधिप ।विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥ ९ ॥
तेषां दर्पः समभवत्प्रजानां धर्मनाशनः ।दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत ॥ १० ॥
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् ।ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥ ११ ॥
ततो मोहपरीतास्ते नापश्यन्त यथा पुरा ।परस्परावमर्देन वर्तयन्ति यथासुखम् ॥ १२ ॥
तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत् ।ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥ १३ ॥
एतस्मिन्नेव काले तु देवा देववरं शिवम् ।अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् ॥ १४ ॥
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ ।तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा ॥ १५ ॥
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः ।देवतानां भयकरः स हतः शूलपाणिना ॥ १६ ॥
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः ।प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा ॥ १७ ॥
ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम् ।सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे ॥ १८ ॥
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः ।राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् ॥ १९ ॥
महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये ।तेषामथासुरो भावो हृदयान्नापसर्पति ॥ २० ॥
तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः ।आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः ॥ २१ ॥
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च ।भजन्ते तानि चाद्यापि ये बालिशतमा नराः ॥ २२ ॥
तस्मादहं ब्रवीमि त्वां राजन्संचिन्त्य शास्त्रतः ।संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥ २३ ॥
न संकरेण द्रविणं विचिन्वीत विचक्षणः ।धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते ॥ २४ ॥
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः ।प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥ २५ ॥
इष्टानिष्टसमायोगो वैरं सौहार्दमेव च ।अथ जातिसहस्राणि बहूनि परिवर्तते ॥ २६ ॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन ।निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ॥ २७ ॥
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः ।न तथान्येषु भूतेषु मनुष्यरहितेष्विह ॥ २८ ॥
धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा ।आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् ॥ २९ ॥
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै ।नानृतं चैव भवति तदा कल्याणमृच्छति ॥ ३० ॥
« »