Click on words to see what they mean.

जनक उवाच ।वर्णो विशेषवर्णानां महर्षे केन जायते ।एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ॥ १ ॥
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः ।कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥ २ ॥
पराशर उवाच ।एवमेतन्महाराज येन जातः स एव सः ।तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥ ३ ॥
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः ।अतोऽन्यतरतो हीनादवरो नाम जायते ॥ ४ ॥
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे ।सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥ ५ ॥
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः ।ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥ ६ ॥
चतुर्णामेव वर्णानामागमः पुरुषर्षभ ।अतोऽन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः ॥ ७ ॥
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा ।श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥ ८ ॥
आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप ।एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ॥ ९ ॥
जनक उवाच ।ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् ।बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥ १० ॥
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः ।शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ॥ ११ ॥
पराशर उवाच ।राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना ।महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥ १२ ॥
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह ।स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥ १३ ॥
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः ।वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः ॥ १४ ॥
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः ।आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च ॥ १५ ॥
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् ।प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ॥ १६ ॥
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव ।अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥ १७ ॥
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव ।नामधेयानि तपसा तानि च ग्रहणं सताम् ॥ १८ ॥
जनक उवाच ।विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम ।तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ॥ १९ ॥
पराशर उवाच ।प्रतिग्रहो याजनं च तथैवाध्यापनं नृप ।विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ॥ २० ॥
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि ।द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥ २१ ॥
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः ।धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥ २२ ॥
आनृशंस्यमहिंसा चाप्रमादः संविभागिता ।श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥ २३ ॥
स्वेषु दारेषु संतोषः शौचं नित्यानसूयता ।आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥ २४ ॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥ २५ ॥
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः ।उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु ॥ २६ ॥
न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा ।श्रुतिप्रवृत्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् ॥ २७ ॥
वैदेहकं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः ।अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् ॥ २८ ॥
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः ।मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥ २९ ॥
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः ।तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ॥ ३० ॥
जनक उवाच ।किं कर्म दूषयत्येनमथ जातिर्महामुने ।संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥ ३१ ॥
पराशर उवाच ।असंशयं महाराज उभयं दोषकारकम् ।कर्म चैव हि जातिश्च विशेषं तु निशामय ॥ ३२ ॥
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते ।जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥ ३३ ॥
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् ।कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम् ॥ ३४ ॥
जनक उवाच ।कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम ।न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥ ३५ ॥
पराशर उवाच ।शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि ।यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥ ३६ ॥
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः ।नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ॥ ३७ ॥
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः ।प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥ ३८ ॥
सर्वे वर्णा धर्मकार्याणि सम्यक्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा ।त्यक्त्वाधर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः ॥ ३९ ॥
« »