Click on words to see what they mean.

युधिष्ठिर उवाच ।अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः ।अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।गुरुपूजा च सततं वृद्धानां पर्युपासनम् ।श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ॥ २ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गालवस्य च संवादं देवर्षेर्नारदस्य च ॥ ३ ॥
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम् ।श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत् ॥ ४ ॥
यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु ।भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम् ॥ ५ ॥
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति ।अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ॥ ६ ॥
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः ।यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ॥ ७ ॥
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः ।इदं श्रेय इदं श्रेय इति नानाप्रधाविताः ॥ ८ ॥
तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः ।स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे ॥ ९ ॥
शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा ।शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ॥ १० ॥
एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम् ।ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः ॥ ११ ॥
नारद उवाच ।आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक् ।तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ॥ १२ ॥
तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः ।नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् ।नयन्ति चैव ते सम्यगभिप्रेतमसंशयम् ॥ १३ ॥
ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम् ।यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् ॥ १४ ॥
अनुग्रहं च मित्राणाममित्राणां च निग्रहम् ।संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः ॥ १५ ॥
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ।सद्भिश्च समुदाचारः श्रेय एतदसंशयम् ॥ १६ ॥
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् ।वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् ॥ १७ ॥
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि ।असंत्यागश्च भृत्यानां श्रेय एतदसंशयम् ॥ १८ ॥
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ।यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् ॥ १९ ॥
अहंकारस्य च त्यागः प्रणयस्य च निग्रहः ।संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते ॥ २० ॥
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च ।विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम् ॥ २१ ॥
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान् ।नात्यर्थमुपसेवेत श्रेयसोऽर्थी परंतप ॥ २२ ॥
नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम् ।अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत् ॥ २३ ॥
कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया ।स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् ॥ २४ ॥
निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविनो नराः ।दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥ २५ ॥
अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात् ।गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ॥ २६ ॥
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः ॥ २७ ॥
अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः ।तथैवाव्याहरन्भाति विमलो भानुरम्बरे ॥ २८ ॥
एवमादीनि चान्यानि परित्यक्तानि मेधया ।ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ॥ २९ ॥
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया ।अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥ ३० ॥
असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति ।दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ॥ ३१ ॥
मूढानामवलिप्तानामसारं भाषितं बहु ।दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥ ३२ ॥
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम् ।प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम् ॥ ३३ ॥
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ।ज्ञानवानपि मेधावी जडवल्लोकमाचरेत् ॥ ३४ ॥
ततो वासं परीक्षेत धर्मनित्येषु साधुषु ।मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥ ३५ ॥
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् ।न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन ॥ ३६ ॥
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः ।पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ॥ ३७ ॥
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा ।तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः ॥ ३८ ॥
अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः ।भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम् ॥ ३९ ॥
यत्रागमयमानानामसत्कारेण पृच्छताम् ।प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् ॥ ४० ॥
शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता ।यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत् ॥ ४१ ॥
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् ।आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः ॥ ४२ ॥
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः ।प्रदीप्तमिव शैलान्तं कस्तं देशं न संत्यजेत् ॥ ४३ ॥
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः ।चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ ४४ ॥
धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः ।न ताननुवसेज्जातु ते हि पापकृतो जनाः ॥ ४५ ॥
कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः ।व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ॥ ४६ ॥
येन खट्वां समारूढः कर्मणानुशयी भवेत् ।आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ॥ ४७ ॥
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः ।कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ॥ ४८ ॥
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः ।याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ॥ ४९ ॥
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः ।अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ॥ ५० ॥
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् ।त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ॥ ५१ ॥
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः ।स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् ॥ ५२ ॥
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु ।चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ ५३ ॥
उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु ।अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ॥ ५४ ॥
यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता ।अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ॥ ५५ ॥
तथाशीला हि राजानः सर्वान्विषयवासिनः ।श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते ॥ ५६ ॥
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम् ।न हि शक्यं प्रधानेन श्रेयः संख्यातुमात्मनः ॥ ५७ ॥
एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः ।तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥ ५८ ॥
« »