Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।अस्ति वृत्रवधादेव विवक्षा मम जायते ॥ १ ॥
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप ।निहतो वासवेनेह वज्रेणेति ममानघ ॥ २ ॥
कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः ।ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो ॥ ३ ॥
भीष्म उवाच ।शृणु राजञ्ज्वरस्येह संभवं लोकविश्रुतम् ।विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत ॥ ४ ॥
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम् ।ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ।अप्रमेयमनाधृष्यं सर्वलोकेषु भारत ॥ ५ ॥
तत्र देवो गिरितटे हेमधातुविभूषिते ।पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ॥ ६ ॥
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ ।तथा देवा महात्मानो वसवश्च महौजसः ॥ ७ ॥
तथैव च महात्मानावश्विनौ भिषजां वरौ ।तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः ॥ ८ ॥
यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः ।अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे ॥ ९ ॥
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ।अप्सरोगणसंघाश्च समाजग्मुरनेकशः ॥ १० ॥
ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः ।सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः ॥ ११ ॥
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ।महादेवं पशुपतिं पर्युपासन्त भारत ॥ १२ ॥
भूतानि च महाराज नानारूपधराण्यथ ।राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ॥ १३ ॥
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ।देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः ॥ १४ ॥
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः ।प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ॥ १५ ॥
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ।पर्युपासत तं देवं रूपिणी कुरुनन्दन ॥ १६ ॥
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ।देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत ॥ १७ ॥
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः ।पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत ॥ १८ ॥
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः ।गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ १९ ॥
ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः ।देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः ॥ २० ॥
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा ।उवाच वचनं साध्वी देवं पशुपतिं पतिम् ॥ २१ ॥
भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः ।ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ २२ ॥
महेश्वर उवाच ।दक्षो नाम महाभागे प्रजानां पतिरुत्तमः ।हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ २३ ॥
उमा उवाच ।यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि ।केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ २४ ॥
महेश्वर उवाच ।सुरैरेव महाभागे सर्वमेतदनुष्ठितम् ।यज्ञेषु सर्वेषु मम न भाग उपकल्पितः ॥ २५ ॥
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि ।न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ २६ ॥
उमा उवाच ।भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः ।अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया ॥ २७ ॥
अनेन ते महाभाग प्रतिषेधेन भागतः ।अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ ॥ २८ ॥
भीष्म उवाच ।एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् ।तूष्णींभूताभवद्राजन्दह्यमानेन चेतसा ॥ २९ ॥
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् ।स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् ॥ ३० ॥
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः ।तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा ।सहसा घातयामास देवदेवः पिनाकधृक् ॥ ३१ ॥
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे ।रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् ॥ ३२ ॥
केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः ।आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् ॥ ३३ ॥
ततः स यज्ञो नृपते वध्यमानः समन्ततः ।आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा ॥ ३४ ॥
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ।धनुरादाय बाणं च तदान्वसरत प्रभुः ॥ ३५ ॥
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः ।ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह ॥ ३६ ॥
तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि ।प्रादुर्बभूव सुमहानग्निः कालानलोपमः ॥ ३७ ॥
तत्र चाजायत तदा पुरुषः पुरुषर्षभ ।ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः ॥ ३८ ॥
ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च ।करालः कृष्णवर्णश्च रक्तवासास्तथैव च ॥ ३९ ॥
तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः ।देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश ॥ ४० ॥
तेन तस्मिन्विचरता पुरुषेण विशां पते ।पृथिवी व्यचलद्राजन्नतीव भरतर्षभ ॥ ४१ ॥
हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे ।पितामहो महादेवं दर्शयन्प्रत्यभाषत ॥ ४२ ॥
भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ।क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ॥ ४३ ॥
इमा हि देवताः सर्वा ऋषयश्च परंतप ।तव क्रोधान्महादेव न शान्तिमुपलेभिरे ॥ ४४ ॥
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम ।ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ॥ ४५ ॥
एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो ।समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ॥ ४६ ॥
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते ।भगवन्तं तथेत्याह ब्रह्माणममितौजसम् ॥ ४७ ॥
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक् ।अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः ॥ ४८ ॥
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा ।शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक ॥ ४९ ॥
शीर्षाभितापो नागानां पर्वतानां शिलाजतुः ।अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च ॥ ५० ॥
खोरकः सौरभेयाणामूषरं पृथिवीतले ।पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ ५१ ॥
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ।नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना ॥ ५२ ॥
अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् ।शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ॥ ५३ ॥
शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते ।मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः ।मरणे जन्मनि तथा मध्ये चाविशते नरम् ॥ ५४ ॥
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः ।नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ५५ ॥
अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः ।व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् ॥ ५६ ॥
प्रविश्य वज्रो वृत्रं तु दारयामास भारत ।दारितश्च स वज्रेण महायोगी महासुरः ।जगाम परमं स्थानं विष्णोरमिततेजसः ॥ ५७ ॥
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा ।तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् ॥ ५८ ॥
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया ।विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते ॥ ५९ ॥
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः ।विमुक्तरोगः स सुखी मुदा युतो लभेत कामान्स यथामनीषितान् ॥ ६० ॥
« »