Click on words to see what they mean.

भीष्म उवाच ।वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः ।अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ॥ १ ॥
ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम् ।गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् ।रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप ॥ २ ॥
शिवा चाशिवसंकाशा तस्य वक्त्रात्सुदारुणा ।निष्पपात महाघोरा स्मृतिः सा तस्य भारत ।उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे ॥ ३ ॥
गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः ।वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः ॥ ४ ॥
ततस्तं रथमास्थाय देवाप्यायितमाहवे ।वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत ॥ ५ ॥
अमानुषमथो नादं स मुमोच महासुरः ।व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः ।अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत् ॥ ६ ॥
स वज्रः सुमहातेजाः कालाग्निसदृशोपमः ।क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत् ॥ ७ ॥
ततो नादः समभवत्पुनरेव समन्ततः ।वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ ॥ ८ ॥
वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः ।वज्रेण विष्णुयुक्तेन दिवमेव समाविशत् ॥ ९ ॥
अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता ।ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा ॥ १० ॥
करालदशना भीमा विकृता कृष्णपिङ्गला ।प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत ॥ ११ ॥
कपालमालिनी चैव कृशा च भरतर्षभ ।रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी ॥ १२ ॥
साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा ।वज्रिणं मृगयामास तदा भरतसत्तम ॥ १३ ॥
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन ।स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया ॥ १४ ॥
बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् ।कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा ॥ १५ ॥
स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये ।नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून् ॥ १६ ॥
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया ।तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत ॥ १७ ॥
तस्या व्यपोहने शक्रः परं यत्नं चकार ह ।न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम् ॥ १८ ॥
गृहीत एव तु तया देवेन्द्रो भरतर्षभ ।पितामहमुपागम्य शिरसा प्रत्यपूजयत् ॥ १९ ॥
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ।ब्रह्मा संचिन्तयामास तदा भरतसत्तम ॥ २० ॥
तामुवाच महाबाहो ब्रह्महत्यां पितामहः ।स्वरेण मधुरेणाथ सान्त्वयन्निव भारत ॥ २१ ॥
मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि ।ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि ॥ २२ ॥
ब्रह्महत्योवाच ।त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि ।कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे ॥ २३ ॥
त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना ।स्थापना वै सुमहती त्वया देव प्रवर्तिता ॥ २४ ॥
प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो ।शक्रादपगमिष्यामि निवासं तु विधत्स्व मे ॥ २५ ॥
भीष्म उवाच ।तथेति तां प्राह तदा ब्रह्महत्यां पितामहः ।उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत ॥ २६ ॥
ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना ।ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत् ॥ २७ ॥
प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम ।यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति ॥ २८ ॥
ब्रह्मोवाच ।बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम् ।शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे ॥ २९ ॥
अग्निरुवाच ।मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो ।एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ॥ ३० ॥
ब्रह्मोवाच ।यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् ।बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः ॥ ३१ ॥
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः ॥ ३२ ॥
भीष्म उवाच ।इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् ।पितामहस्य भगवांस्तथा च तदभूत्प्रभो ॥ ३३ ॥
ततो वृक्षौषधितृणं समाहूय पितामहः ।इममर्थं महाराज वक्तुं समुपचक्रमे ॥ ३४ ॥
ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् ।व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत् ॥ ३५ ॥
अस्माकं ब्रह्महत्यातो कोऽन्तो लोकपितामह ।स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि ॥ ३६ ॥
वयमग्निं तथा शीतं वर्षं च पवनेरितम् ।सहामः सततं देव तथा छेदनभेदनम् ॥ ३७ ॥
ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम् ।ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान् ॥ ३८ ॥
ब्रह्मोवाच ।पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम् ।करिष्यति नरो मोहात्तमेषानुगमिष्यति ॥ ३९ ॥
भीष्म उवाच ।ततो वृक्षौषधितृणमेवमुक्तं महात्मना ।ब्रह्माणमभिसंपूज्य जगामाशु यथागतम् ॥ ४० ॥
आहूयाप्सरसो देवस्ततो लोकपितामहः ।वाचा मधुरया प्राह सान्त्वयन्निव भारत ॥ ४१ ॥
इयमिन्द्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः ।चतुर्थमस्या भागं हि मयोक्ताः संप्रतीच्छत ॥ ४२ ॥
अप्सरस ऊचुः ।ग्रहणे कृतबुद्धीनां देवेश तव शासनात् ।मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह ॥ ४३ ॥
ब्रह्मोवाच ।रजस्वलासु नारीषु यो वै मैथुनमाचरेत् ।तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः ॥ ४४ ॥
भीष्म उवाच ।तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः ।स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ ॥ ४५ ॥
ततस्त्रिलोककृद्देवः पुनरेव महातपाः ।अपः संचिन्तयामास ध्यातास्ताश्चाप्यथागमन् ॥ ४६ ॥
तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् ।इदमूचुर्वचो राजन्प्रणिपत्य पितामहम् ॥ ४७ ॥
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम ।शासनात्तव देवेश समाज्ञापय नो विभो ॥ ४८ ॥
ब्रह्मोवाच ।इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया ।ब्रह्महत्या चतुर्थांशमस्या यूयं प्रतीच्छत ॥ ४९ ॥
आप ऊचुः ।एवं भवतु लोकेश यथा वदसि नः प्रभो ।मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि ॥ ५० ॥
त्वं हि देवेश सर्वस्य जगतः परमो गुरुः ।कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत् ॥ ५१ ॥
ब्रह्मोवाच ।अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः ।श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ॥ ५२ ॥
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः ॥ ५३ ॥
भीष्म उवाच ।ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर ।यथानिसृष्टं तं देशमगच्छद्देवशासनात् ॥ ५४ ॥
एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप ।पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत् ॥ ५५ ॥
श्रूयते हि महाराज संप्राप्ता वासवेन वै ।ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान् ॥ ५६ ॥
समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः ।प्रहर्षमतुलं लेभे वासवः पृथिवीपते ॥ ५७ ॥
वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे ।द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः ॥ ५८ ॥
सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु ।इमे हि भूतले देवाः प्रथिताः कुरुनन्दन ॥ ५९ ॥
एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः ।उपायपूर्वं निहतो वृत्रोऽथामिततेजसा ॥ ६० ॥
एवं त्वमपि कौरव्य पृथिव्यामपराजितः ।भविष्यसि यथा देवः शतक्रतुरमित्रहा ॥ ६१ ॥
ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु ।विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम् ॥ ६२ ॥
इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् ।कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि ॥ ६३ ॥
« »