Click on words to see what they mean.

युधिष्ठिर उवाच ।अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः ।यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ॥ १ ॥
दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः ।कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ ॥ २ ॥
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत ।भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् ॥ ३ ॥
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ ।धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये ॥ ४ ॥
एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ ।वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः ॥ ५ ॥
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह ।विस्तरेण महाबाहो परं कौतूहलं हि मे ॥ ६ ॥
भीष्म उवाच ।रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा ।ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् ॥ ७ ॥
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम ।शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु ॥ ८ ॥
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् ।वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे ॥ ९ ॥
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत ।भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ॥ १० ॥
ततो नादः समभवद्वादित्राणां च निस्वनः ।देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते ॥ ११ ॥
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् ।न संभ्रमो न भीः काचिदास्था वा समजायत ॥ १२ ॥
ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम् ।शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥ १३ ॥
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः ।शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ॥ १४ ॥
अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च ।देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ॥ १५ ॥
पितामहपुरोगाश्च सर्वे देवगणास्तथा ।ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥ १६ ॥
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ ।गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् ॥ १७ ॥
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः ।अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् ॥ १८ ॥
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः ।अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥ १९ ॥
वृत्रश्च कुरुशार्दूल महामायो महाबलः ।मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः ॥ २० ॥
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः ।रथंतरेण तं तत्र वसिष्ठः समबोधयत् ॥ २१ ॥
वसिष्ठ उवाच ।देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण ।त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥ २२ ॥
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः ।सोमश्च भगवान्देवः सर्वे च परमर्षयः ॥ २३ ॥
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा ।आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ॥ २४ ॥
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः ।निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर ॥ २५ ॥
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः ।स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ॥ २६ ॥
भीष्म उवाच ।एवं संबोध्यमानस्य वसिष्ठेन महात्मना ।अतीव वासवस्यासीद्बलमुत्तमतेजसः ॥ २७ ॥
ततो बुद्धिमुपागम्य भगवान्पाकशासनः ।योगेन महता युक्तस्तां मायां व्यपकर्षत ॥ २८ ॥
ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः ।दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ।ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ॥ २९ ॥
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः ।समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा ॥ ३० ॥
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः ।ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः ॥ ३१ ॥
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् ।वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥ ३२ ॥
ते समासाद्य वरदं वासवं लोकपूजितम् ।ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥ ३३ ॥
महेश्वर उवाच ।एष वृत्रो महाञ्शक्र बलेन महता वृतः ।विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥ ३४ ॥
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् ।जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥ ३५ ॥
अनेन हि तपस्तप्तं बलार्थममराधिप ।षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ॥ ३६ ॥
महत्त्वं योगिनां चैव महामायत्वमेव च ।महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ॥ ३७ ॥
एतद्वै मामकं तेजः समाविशति वासव ।वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् ॥ ३८ ॥
शक्र उवाच ।भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् ।वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥ ३९ ॥
भीष्म उवाच ।आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे ।देवतानामृषीणां च हर्षान्नादो महानभूत् ॥ ४० ॥
ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः ।मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः ॥ ४१ ॥
असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् ।प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत ॥ ४२ ॥
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा ।स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ॥ ४३ ॥
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः ।ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् ॥ ४४ ॥
« »