Click on words to see what they mean.

युधिष्ठिर उवाच ।भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा ।अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः ॥ १ ॥
येयमर्थोद्भवा तृष्णा कथमेतां पितामह ।निवर्तयेम पापं हि तृष्णया कारिता वयम् ॥ २ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं विदेहराजेन माण्डव्यायानुपृच्छते ॥ ३ ॥
सुसुखं बत जीवामि यस्य मे नास्ति किंचन ।मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥ ४ ॥
अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् ।असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥ ५ ॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ ६ ॥
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते ।तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ॥ ७ ॥
किंचिदेव ममत्वेन यदा भवति कल्पितम् ।तदेव परितापाय नाशे संपद्यते पुनः ॥ ८ ॥
न कामाननुरुध्येत दुःखं कामेषु वै रतिः ।प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत् ॥ ९ ॥
विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् ।कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह ॥ १० ॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये ।भयाभये च संत्यज्य संप्रशान्तो निरामयः ॥ ११ ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १२ ॥
चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम् ।धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् ॥ १३ ॥
राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः ।पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः ॥ १४ ॥
« »