Click on words to see what they mean.

भीष्म उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।नारदस्य च संवादं देवलस्यासितस्य च ॥ १ ॥
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः ।नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥ २ ॥
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् ।प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥ ३ ॥
असित उवाच ।येभ्यः सृजति भूतानि कालो भावप्रचोदितः ।महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥ ४ ॥
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः ।एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥ ५ ॥
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् ।महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥ ६ ॥
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ ।असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥ ७ ॥
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् ।वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः ॥ ८ ॥
पञ्चैव तानि कालश्च भावाभावौ च केवलौ ।अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ ॥ ९ ॥
अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि ।विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा ॥ १० ॥
तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम् ।सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम् ॥ ११ ॥
चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी ।इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥ १२ ॥
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा ।उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा ॥ १३ ॥
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः ।इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥ १४ ॥
रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान् ।इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥ १५ ॥
चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः ।मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥ १६ ॥
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् ।विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति ।इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति ॥ १७ ॥
चित्तमिन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम् ।अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥ १८ ॥
पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम् ।इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥ १९ ॥
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते ।गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥ २० ॥
पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।विसर्गे च पुरीषस्य विसर्गे चाभिकामिके ॥ २१ ॥
बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् ।ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया ॥ २२ ॥
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा ।भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः ॥ २३ ॥
इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि ।सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् ॥ २४ ॥
सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः ।कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा ॥ २५ ॥
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः ।सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः ॥ २६ ॥
जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः ।भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः ॥ २७ ॥
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः ।तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥ २८ ॥
अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् ।संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥ २९ ॥
अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम् ।एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् ।ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः ॥ ३० ॥
महान्संधारयत्येतच्छरीरं वायुना सह ।तस्यास्य भावयुक्तस्य निमित्तं देहभेदने ॥ ३१ ॥
यथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा ।पुण्यपापविनाशान्ते पुण्यपापसमीरितम् ।देहं विशति कालेन ततोऽयं कर्मसंभवम् ॥ ३२ ॥
हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः ।कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥ ३३ ॥
तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः ।कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः ॥ ३४ ॥
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते ।भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् ॥ ३५ ॥
नैव संजायते जन्तुर्न च जातु विपद्यते ।याति देहमयं भुक्त्वा कदाचित्परमां गतिम् ॥ ३६ ॥
पुण्यपापमयं देहं क्षपयन्कर्मसंचयात् ।क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥ ३७ ॥
पुण्यपापक्षयार्थं च सांख्यं ज्ञानं विधीयते ।तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम् ॥ ३८ ॥
« »