Click on words to see what they mean.

युधिष्ठिर उवाच ।मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।तमुपायं यथान्यायं श्रोतुमिच्छामि भारत ॥ १ ॥
भीष्म उवाच ।त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् ।यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ ॥ २ ॥
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ ।एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम् ॥ ३ ॥
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ।एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु ॥ ४ ॥
क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् ।सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति ॥ ५ ॥
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् ।इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ ६ ॥
भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत् ।निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ॥ ७ ॥
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् ।लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् ॥ ८ ॥
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ।आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् ॥ ९ ॥
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ।कारुण्येनात्मनो मानं तृष्णां च परितोषतः ॥ १० ॥
उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् ।मौनेन बहुभाष्यं च शौर्येण च भयं जयेत् ॥ ११ ॥
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ।ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ॥ १२ ॥
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ।योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥ १३ ॥
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ।परित्यज्य निषेवेत तथेमान्योगसाधनान् ॥ १४ ॥
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः ॥ १५ ॥
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च ।सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ॥ १६ ॥
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः ।कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ १७ ॥
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ।अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः ॥ १८ ॥
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ।तथा वाक्कायमनसां नियमः कामतोऽन्यथा ॥ १९ ॥
« »