Click on words to see what they mean.

युधिष्ठिर उवाच ।अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः ।यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह ॥ १ ॥
गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः ।अदूरसंप्रस्थितयोः किं स्विच्छ्रेयः पितामह ॥ २ ॥
भीष्म उवाच ।उभौ धर्मौ महाभागावुभौ परमदुश्चरौ ।उभौ महाफलौ तात सद्भिराचरितावुभौ ॥ ३ ॥
अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः ।शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् ॥ ४ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर ॥ ५ ॥
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् ।नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ॥ ६ ॥
तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः ।ज्ञानवान्नियताहारो ददर्श कपिलस्तदा ॥ ७ ॥
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् ।स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत् ॥ ८ ॥
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् ।हंहो वेदा यदि मता धर्माः केनापरे मताः ॥ ९ ॥
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः ।सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ॥ १० ॥
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः ।का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः ॥ ११ ॥
कपिल उवाच ।नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित् ।पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ॥ १२ ॥
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति ।गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ॥ १३ ॥
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः ।तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् ॥ १४ ॥
एवं विदित्वा सर्वार्थानारभेदिति वैदिकम् ।नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ॥ १५ ॥
अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः ।एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ॥ १६ ॥
यद्यत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम् ।ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ॥ १७ ॥
स्यूमरश्मिरुवाच ।स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः ।फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ॥ १८ ॥
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये ।ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः ॥ १९ ॥
तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते ।पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ॥ २० ॥
एतानि सह यज्ञेन प्रजापतिरकल्पयत् ।तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः ॥ २१ ॥
ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च ।यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम् ॥ २२ ॥
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा ।को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ॥ २३ ॥
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह ।स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम् ॥ २४ ॥
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि ।हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ॥ २५ ॥
ऋचो यजूंषि सामानि यजमानश्च षोडशः ।अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ।अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः ॥ २६ ॥
आज्येन पयसा दध्ना शकृतामिक्षया त्वचा ।वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् ।एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते ॥ २७ ॥
यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः ।संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत ॥ २८ ॥
यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः ।एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः ॥ २९ ॥
न हिनस्ति ह्यारभते नाभिद्रुह्यति किंचन ।यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया ॥ ३० ॥
यज्ञाङ्गान्यपि चैतानि यथोक्तानि नसंशयः ।विधिना विधियुक्तानि तारयन्ति परस्परम् ॥ ३१ ॥
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः ।तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ॥ ३२ ॥
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च ।अनु यज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा ॥ ३३ ॥
ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् ।यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥ ३४ ॥
न तस्य त्रिषु लोकेषु परलोकभयं विदुः ।इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ॥ ३५ ॥
ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः ।यस्मिन्नेतानि सर्वाणि बहिरेव स वै द्विजः ॥ ३६ ॥
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज ।यच्चेतरैर्महायज्ञैर्वेद तद्भगवान्स्वतः ॥ ३७ ॥
तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन् ।यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् ॥ ३८ ॥
नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः ।वेदवादविदश्चैव प्रमाणमुभयं तदा ॥ ३९ ॥
« »