Click on words to see what they mean.

भीष्म उवाच ।इत्युक्तः स तदा तेन तुलाधारेण धीमता ।प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः ॥ १ ॥
विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज ।वनस्पतीनोषधीश्च तेषां मूलफलानि च ॥ २ ॥
अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम् ।एतदाचक्ष्व मे सर्वं निखिलेन महामते ॥ ३ ॥
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना ।उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ।जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप ॥ ४ ॥
वेदाहं जाजले धर्मं सरहस्यं सनातनम् ।सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥ ५ ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ॥ ६ ॥
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् ।अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ॥ ७ ॥
रसांश्च तांस्तान्विप्रर्षे मद्यवर्जानहं बहून् ।क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया ॥ ८ ॥
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः ।कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥ ९ ॥
नाहं परेषां कर्माणि प्रशंसामि शपामि वा ।आकाशस्येव विप्रर्षे पश्यँल्लोकस्य चित्रताम् ॥ १० ॥
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये ।समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् ॥ ११ ॥
इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः ।तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥ १२ ॥
इति मां त्वं विजानीहि सर्वलोकस्य जाजले ।समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ॥ १३ ॥
यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा ।देवैरपिहितद्वाराः सोपमा पश्यतो मम ॥ १४ ॥
यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति ।तथार्थकामभोगेषु ममापि विगता स्पृहा ॥ १५ ॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति ।यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः ॥ १६ ॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् ।कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ १७ ॥
न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन ।योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ॥ १८ ॥
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव ।वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम् ॥ १९ ॥
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् ।अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम् ॥ २० ॥
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः ।तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते ॥ २१ ॥
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् ।एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ॥ २२ ॥
नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया ।यदृच्छयैव काष्ठेन संधिं गच्छेत केनचित् ॥ २३ ॥
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः ।तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया ।एवमेवायमाचारः प्रादुर्भूतो यतस्ततः ॥ २४ ॥
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन ।अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ॥ २५ ॥
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव ।क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ॥ २६ ॥
सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा ।ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत ।कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ॥ २७ ॥
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा ।प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ॥ २८ ॥
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् ।स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ।न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन ॥ २९ ॥
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन ।सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने ॥ ३० ॥
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ।न स धर्ममवाप्नोति इह लोके परत्र च ॥ ३१ ॥
सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः ।देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ ३२ ॥
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् ।ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले ॥ ३३ ॥
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः ।व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥ ३४ ॥
अकारणो हि नेहास्ति धर्मः सूक्ष्मोऽपि जाजले ।भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् ॥ ३५ ॥
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः ।उपलभ्यान्तरा चान्यानाचारानवबुध्यते ॥ ३६ ॥
ये च छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् ।वहन्ति महतो भारान्बध्नन्ति दमयन्ति च ॥ ३७ ॥
हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे ।मानुषा मानुषानेव दासभोगेन भुञ्जते ॥ ३८ ॥
वधबन्धविरोधेन कारयन्ति दिवानिशम् ।आत्मना चापि जानासि यद्दुःखं वधताडने ॥ ३९ ॥
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् ।आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः ॥ ४० ॥
तानि जीवानि विक्रीय का मृतेषु विचारणा ।का तैले का घृते ब्रह्मन्मधुन्यप्स्वौषधेषु वा ॥ ४१ ॥
अदंशमशके देशे सुखं संवर्धितान्पशून् ।तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः ।बहुदंशकुशान्देशान्नयन्ति बहुकर्दमान् ॥ ४२ ॥
वाहसंपीडिता धुर्याः सीदन्त्यविधिनापरे ।न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा ॥ ४३ ॥
कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा ।भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ।तथैवानडुहो युक्तान्समवेक्षस्व जाजले ॥ ४४ ॥
अघ्न्या इति गवां नाम क एनान्हन्तुमर्हति ।महच्चकाराकुशलं पृषध्रो गालभन्निव ॥ ४५ ॥
ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन् ।गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् ।अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते भयम् ॥ ४६ ॥
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् ।ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले ।भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः ॥ ४७ ॥
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः ।ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन् ॥ ४८ ॥
ईदृशानशिवान्घोरानाचारानिह जाजले ।केवलाचरितत्वात्तु निपुणान्नावबुध्यसे ॥ ४९ ॥
कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत् ।यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले ॥ ५० ॥
समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये ।एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ॥ ५१ ॥
उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते ।सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः ॥ ५२ ॥
« »