Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ॥ १ ॥
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः ।सागरोद्देशमागम्य तपस्तेपे महातपाः ॥ २ ॥
नियतो नियताहारश्चीराजिनजटाधरः ।मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ॥ ३ ॥
स कदाचिन्महातेजा जलवासो महीपते ।चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ॥ ४ ॥
स चिन्तयामास मुनिर्जलमध्ये कदाचन ।विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् ॥ ५ ॥
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे ।अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ॥ ६ ॥
स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः ।अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि ॥ ७ ॥
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः ।सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ॥ ८ ॥
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः ।पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ॥ ९ ॥
इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात् ।अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम ॥ १० ॥
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा ।वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः ॥ ११ ॥
युधिष्ठिर उवाच ।किं कृतं सुकृतं कर्म तात जाजलिना पुरा ।येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि ॥ १२ ॥
भीष्म उवाच ।अतीव तपसा युक्तो घोरेण स बभूव ह ।नद्युपस्पर्शनरतः सायं प्रातर्महातपाः ॥ १३ ॥
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः ।वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया ॥ १४ ॥
सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत ।वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः ॥ १५ ॥
वातातपसहो ग्रीष्मे न च धर्ममविन्दत ।दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ॥ १६ ॥
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः ।अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः ॥ १७ ॥
अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो ।अरण्यगमनान्नित्यं मलिनो मलसंयुताः ॥ १८ ॥
स कदाचिन्निराहारो वायुभक्षो महातपाः ।तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ॥ १९ ॥
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत ।कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः ॥ २० ॥
स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती ।कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः ॥ २१ ॥
यदा स न चलत्येव स्थाणुभूतो महातपाः ।ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा ॥ २२ ॥
अतीतास्वथ वर्षासु शरत्काल उपस्थिते ।प्राजापत्येन विधिना विश्वासात्काममोहितौ ॥ २३ ॥
तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ ।तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ॥ २४ ॥
बुद्ध्वा च स महातेजा न चचालैव जाजलिः ।धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत् ॥ २५ ॥
अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि ।आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो ॥ २६ ॥
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः ।व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ॥ २७ ॥
स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः ।तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ॥ २८ ॥
ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः ।बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान् ॥ २९ ॥
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः ।बभूव परमप्रीतस्तदा मतिमतां वरः ॥ ३० ॥
तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम् ।शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह ॥ ३१ ॥
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् ।सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः ॥ ३२ ॥
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम् ।त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः ॥ ३३ ॥
अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप ।उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ॥ ३४ ॥
कदाचिद्दिवसान्पञ्च समुत्पत्य विहंगमाः ।षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ॥ ३५ ॥
क्रमेण च पुनः सर्वे दिवसानि बहून्यपि ।नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा ॥ ३६ ॥
कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः ।नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ॥ ३७ ॥
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः ।सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत् ॥ ३८ ॥
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः ।संभावितात्मा संभाव्य भृशं प्रीतस्तदाभवन् ॥ ३९ ॥
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् ।उदयन्तमथादित्यमभ्यगच्छन्महातपाः ॥ ४० ॥
संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः ।आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै ॥ ४१ ॥
अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः ।धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ॥ ४२ ॥
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः ।सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ॥ ४३ ॥
सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया ।पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः ॥ ४४ ॥
कालेन महतागच्छत्स तु वाराणसीं पुरीम् ।विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः ॥ ४५ ॥
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः ।समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् ॥ ४६ ॥
तुलाधार उवाच ।आयानेवासि विदितो मम ब्रह्मन्न संशयः ।ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ॥ ४७ ॥
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् ।न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन ॥ ४८ ॥
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः ।क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया ॥ ४९ ॥
जातपक्षा यदा ते च गताश्चारीमितस्ततः ।मन्यमानस्ततो धर्मं चटकप्रभवं द्विज ।खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ॥ ५० ॥
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह ।करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ॥ ५१ ॥
« »