Click on words to see what they mean.

जाजलिरुवाच ।यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया ।स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते ॥ १ ॥
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि ।पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज ॥ २ ॥
यतो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि ।न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलम् ॥ ३ ॥
तुलाधार उवाच ।वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः ।न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः ॥ ४ ॥
नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः ।स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः ॥ ५ ॥
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम् ।वेदवादानविज्ञाय सत्याभासमिवानृतम् ॥ ६ ॥
इदं देयमिदं देयमिति नान्तं चिकीर्षति ।अतः स्तैन्यं प्रभवति विकर्माणि च जाजले ।तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः ॥ ७ ॥
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा ।पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम् ॥ ८ ॥
इष्टापूर्तादसाधूनां विषमा जायते प्रजा ।लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः ॥ ९ ॥
यजमानो यथात्मानमृत्विजश्च तथा प्रजाः ।यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् ॥ १० ॥
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपतिष्ठति ।आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ११ ॥
तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे ।अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् ।न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन ॥ १२ ॥
शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन ।जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः ॥ १३ ॥
स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा ।प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः ।पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ॥ १४ ॥
कर्तव्यमिति कर्तव्यं वेत्ति यो ब्राह्मणोभयम् ।ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः ॥ १५ ॥
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम ।सर्वभूतोपघातश्च फलभावे च संयमः ॥ १६ ॥
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मतृप्तयः ।उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ॥ १७ ॥
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः ।ब्राह्मं वेदमधीयन्तस्तोषयन्त्यमरानपि ॥ १८ ॥
अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम् ।तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले ॥ १९ ॥
यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन ।तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया ॥ २० ॥
धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास्तथा ।अस्ति नस्तत्त्वतो भूय इति प्रज्ञागवेषिणः ॥ २१ ॥
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः ।अतीव तत्सदा पुण्यं पुण्याभिजनसंहितम् ॥ २२ ॥
यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च ।ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः ॥ २३ ॥
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः ।सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया ॥ २४ ॥
वनस्पतीनोषधीश्च फलमूलं च ते विदुः ।न चैतानृत्विजो लुब्धा याजयन्ति धनार्थिनः ॥ २५ ॥
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः ।परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया ॥ २६ ॥
प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै ।इति मे वर्तते बुद्धिः समा सर्वत्र जाजले ॥ २७ ॥
प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ ।तेन ते देवयानेन पथा यान्ति महामुने ॥ २८ ॥
आवृत्तिस्तत्र चैकस्य नास्त्यावृत्तिर्मनीषिणाम् ।उभौ तौ देवयानेन गच्छतो जाजले पथा ॥ २९ ॥
स्वयं चैषामनडुहो युज्यन्ति च वहन्ति च ।स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः ॥ ३० ॥
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः ।यस्तथाभावितात्मा स्यात्स गामालब्धुमर्हति ॥ ३१ ॥
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते नतादृशाः ।बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते ॥ ३२ ॥
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥ ३३ ॥
नाश्रावयन्न च यजन्न ददद्ब्राह्मणेषु च ।ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले ।इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥ ३४ ॥
जाजलिरुवाच ।न वै मुनीनां शृणुमः स्म तत्त्वं पृच्छामि त्वा वाणिज कष्टमेतत् ।पूर्वे पूर्वे चास्य नावेक्षमाणा नातः परं तमृषयः स्थापयन्ति ॥ ३५ ॥
अस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुयुः सुखम् ।अथ स्वकर्मणा केन वाणिज प्राप्नुयात्सुखम् ।शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ॥ ३६ ॥
तुलाधार उवाच ।उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित् ।आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः ।वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् ॥ ३७ ॥
पत्नीं चानेन विधिना प्रकरोति नियोजयन् ।पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते ॥ ३८ ॥
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः ।जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव ॥ ३९ ॥
एतानीदृशकान्धर्मानाचरन्निह जाजले ।कारणैर्धर्ममन्विच्छन्न लोकानाप्नुते शुभान् ॥ ४० ॥
भीष्म उवाच ।एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति ।उपपत्त्या हि संपन्नान्नित्यं सद्भिर्निषेवितान् ॥ ४१ ॥
« »