Click on words to see what they mean.

भीष्म उवाच ।पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् ।निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ॥ १ ॥
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः ।लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥ २ ॥
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले ।ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥ ३ ॥
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् ।विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥ ४ ॥
बलिरुवाच ।अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः ।तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ ५ ॥
अन्तवन्त इमे देहा भूतानाममराधिप ।तेन शक्र न शोचामि नापराधादिदं मम ॥ ६ ॥
जीवितं च शरीरं च प्रेत्य वै सह जायते ।उभे सह विवर्धेते उभे सह विनश्यतः ॥ ७ ॥
तदीदृशमिदं भावमवशः प्राप्य केवलम् ।यद्येवमभिजानामि का व्यथा मे विजानतः ॥ ८ ॥
भूतानां निधनं निष्ठा स्रोतसामिव सागरः ।नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ॥ ९ ॥
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः ।ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥ १० ॥
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् ।विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति ॥ ११ ॥
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः ।कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ॥ १२ ॥
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा ।सुखदुःखफलं चैव न द्वेष्मि न च कामये ॥ १३ ॥
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन ।उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥ १४ ॥
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते ।अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ॥ १५ ॥
को हि लोकस्य कुरुते विनाशप्रभवावुभौ ।कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥ १६ ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।एतद्योनीनि भूतानि तत्र का परिदेवना ॥ १७ ॥
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः ।दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥ १८ ॥
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा ।तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥ १९ ॥
दग्धमेवानुदहति हतमेवानुहन्ति च ।नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥ २० ॥
नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते ।नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥ २१ ॥
यदि मे पश्यतः कालो भूतानि न विनाशयेत् ।स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥ २२ ॥
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे ।बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे ॥ २३ ॥
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः ।विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥ २४ ॥
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति ।कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ॥ २५ ॥
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर ।अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ॥ २६ ॥
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः ।प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ॥ २७ ॥
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा ।समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥ २८ ॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥ २९ ॥
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः ।इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥ ३० ॥
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते ।एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥ ३१ ॥
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् ।दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ ३२ ॥
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ।सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ ३३ ॥
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते ।अलक्षणा विरूपा च सुभगा शक्र दृश्यते ॥ ३४ ॥
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् ।यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् ॥ ३५ ॥
न कर्म तव नान्येषां कुतो मम शतक्रतो ।ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् ॥ ३६ ॥
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् ।श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि ॥ ३७ ॥
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् ।पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ॥ ३८ ॥
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।कालः स्थापयते सर्वं कालः पचति वै तथा ॥ ३९ ॥
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् ।गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥ ४० ॥
द्वादशानां हि भवतामादित्यानां महात्मनाम् ।तेजांस्येकेन सर्वेषां देवराज हृतानि मे ॥ ४१ ॥
अहमेवोद्वहाम्यापो विसृजामि च वासव ।तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥ ४२ ॥
संरक्षामि विलुम्पामि ददाम्यहमथाददे ।संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥ ४३ ॥
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप ।कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥ ४४ ॥
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते ।पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥ ४५ ॥
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् ।ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ॥ ४६ ॥
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया ।अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥ ४७ ॥
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा ।अनादिनिधनं चाहुरक्षरं परमेव च ॥ ४८ ॥
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् ।मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ॥ ४९ ॥
भूतानां तु विपर्यासं मन्यते गतवानिति ।न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ॥ ५० ॥
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि ।यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ।तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ॥ ५१ ॥
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ।ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ॥ ५२ ॥
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ।मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ।तं कालमवजानीहि यस्य सर्वमिदं वशे ॥ ५३ ॥
बहूनीन्द्रसहस्राणि समतीतानि वासव ।बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥ ५४ ॥
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् ।प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥ ५५ ॥
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव ।मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥ ५६ ॥
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् ।स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥ ५७ ॥
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् ।मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥ ५८ ॥
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि ।त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ॥ ५९ ॥
« »