Click on words to see what they mean.

युधिष्ठिर उवाच ।यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् ।कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।वासवस्य च संवादं बलेर्वैरोचनस्य च ॥ २ ॥
पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः ।सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ॥ ३ ॥
यस्य स्म ददतो वित्तं न कदाचन हीयते ।तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ ४ ॥
स एव ह्यस्तमयते स स्म विद्योतते दिशः ।स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ।तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ ५ ॥
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः ।सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत ।तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ ६ ॥
ब्रह्मोवाच ।नैतत्ते साधु मघवन्यदेतदनुपृच्छसि ।पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥ ७ ॥
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः ।वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥ ८ ॥
शक्र उवाच ।यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् ।हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ॥ ९ ॥
ब्रह्मोवाच ।मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति ।न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥ १० ॥
भीष्म उवाच ।एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा ।चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥ ११ ॥
ततो ददर्श स बलिं खरवेषेण संवृतम् ।यथाख्यातं भगवता शून्यागारकृतालयम् ॥ १२ ॥
शक्र उवाच ।खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव ।इयं ते योनिरधमा शोचस्याहो न शोचसि ॥ १३ ॥
अदृष्टं बत पश्यामि द्विषतां वशमागतम् ।श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् ॥ १४ ॥
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः ।लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥ १५ ॥
त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने ।अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ।इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ॥ १६ ॥
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् ।ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ॥ १७ ॥
यत्ते सहस्रसमिता ननृतुर्देवयोषितः ।बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ॥ १८ ॥
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः ।कथमद्य तदा चैव मनस्ते दानवेश्वर ॥ १९ ॥
छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम् ।ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा ॥ २० ॥
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः ।यत्राददः सहस्राणामयुतानि गवां दश ॥ २१ ॥
यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः ।शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि ॥ २२ ॥
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च ।ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥ २३ ॥
बलिरुवाच ।न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च ।ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ॥ २४ ॥
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि ।यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥ २५ ॥
न त्वेतदनुरूपं ते यशसो वा कुलस्य वा ।समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ॥ २६ ॥
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु ।कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥ २७ ॥
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे ।यदाहमिव भावी त्वं तदा नैवं वदिष्यसि ॥ २८ ॥
« »