Click on words to see what they mean.

गुरुरुवाच ।अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा ।तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम् ॥ १ ॥
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते ।पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः ॥ २ ॥
सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः ।ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः ॥ ३ ॥
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि ।ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ॥ ४ ॥
तांस्तानुपासते धर्मान्धर्मकामा यथागमम् ।न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ॥ ५ ॥
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः ।सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान् ॥ ६ ॥
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् ।परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम् ॥ ७ ॥
लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम् ।श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ॥ ८ ॥
जिह्वया रसनं यच्च तदेव परिवर्जितम् ।बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम् ॥ ९ ॥
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् ।द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः ॥ १० ॥
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु ।संप्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः ॥ ११ ॥
योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः ।कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः ॥ १२ ॥
रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः ।मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम् ॥ १३ ॥
पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम् ।ज्ञानयुक्तेन मनसा संततेन विचक्षणः ॥ १४ ॥
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् ।तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् ॥ १५ ॥
वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च ।मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम् ॥ १६ ॥
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः ।याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः ॥ १७ ॥
एवमेताः सिरानद्यो रसोदा देहसागरम् ।तर्पयन्ति यथाकालमापगा इव सागरम् ॥ १८ ॥
मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा ।शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ॥ १९ ॥
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः ।नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ॥ २० ॥
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः ।शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः ॥ २१ ॥
स्वप्नेऽप्येवं यथाभ्येति मनःसंकल्पजं रजः ।शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा ॥ २२ ॥
महर्षिर्भगवानत्रिर्वेद तच्छुक्रसंभवम् ।त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते ॥ २३ ॥
ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम् ।विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम् ॥ २४ ॥
गुणानां साम्यमागम्य मनसैव मनोवहम् ।देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ॥ २५ ॥
भविता मनसो ज्ञानं मन एव प्रतायते ।ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम् ॥ २६ ॥
तस्मात्तदविघाताय कर्म कुर्यादकल्मषम् ।रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् ॥ २७ ॥
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् ।परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम् ॥ २८ ॥
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् ।यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते ॥ २९ ॥
« »