Click on words to see what they mean.

गुरुरुवाच ।दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः ।ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् ॥ १ ॥
जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः ।दृष्ट्वेमं संततं लोकं घटेन्मोक्षाय बुद्धिमान् ॥ २ ॥
वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहंकृतः ।प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् ॥ ३ ॥
अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया ।अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् ॥ ४ ॥
यत्कृतं प्राक्शुभं कर्म पापं वा तदुपाश्नुते ।तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः ॥ ५ ॥
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् ।क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥ ६ ॥
यश्चैनं परमं धर्मं सर्वभूतसुखावहम् ।दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् ॥ ७ ॥
तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् ।नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ॥ ८ ॥
अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते ।विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता ।सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ॥ ९ ॥
कल्कापेतामपरुषामनृशंसामपैशुनाम् ।ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥ १० ॥
वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि ।बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम् ।रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते ॥ ११ ॥
स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते ।तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः ॥ १२ ॥
प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः ।प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा ॥ १३ ॥
तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम् ।तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम् ॥ १४ ॥
निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः ।विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः ॥ १५ ॥
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् ।निष्प्रचारेण मनसा परं तदधिगच्छति ॥ १६ ॥
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् ।मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः ॥ १७ ॥
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे ।देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् ॥ १८ ॥
ताभिः संसक्तमनसो ब्रह्मवत्संप्रकाशते ।एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते ॥ १९ ॥
अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् ।येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत् ॥ २० ॥
कणपिण्याककुल्माषशाकयावकसक्तवः ।तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् ॥ २१ ॥
आहारं नियतं चैव देशे काले च सात्त्विकम् ।तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् ॥ २२ ॥
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् ।ज्ञानेन्धितं ततो ज्ञानमर्कवत्संप्रकाशते ॥ २३ ॥
ज्ञानाधिष्ठानमज्ञानं त्रीँल्लोकानधितिष्ठति ।विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते ॥ २४ ॥
पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम् ।स तयोरपवर्गज्ञो वीतरागो विमुच्यते ॥ २५ ॥
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् ।अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् ॥ २६ ॥
« »