Click on words to see what they mean.

गुरुरुवाच ।रजसा साध्यते मोहस्तमसा च नरर्षभ ।क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः ॥ १ ॥
परमं परमात्मानं देवमक्षयमव्ययम् ।विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम् ॥ २ ॥
तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः ।मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै ॥ ३ ॥
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः ।मानदर्पादहंकारमहंकारात्ततः क्रियाः ॥ ४ ॥
क्रियाभिः स्नेहसंबन्धः स्नेहाच्छोकमनन्तरम् ।सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः ॥ ५ ॥
जन्मतो गर्भवासं तु शुक्रशोणितसंभवम् ।पुरीषमूत्रविक्लेदशोणितप्रभवाविलम् ॥ ६ ॥
तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् ।संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः ॥ ७ ॥
प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः ।तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः ॥ ८ ॥
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् ।रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी ॥ ९ ॥
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः ।स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् ।स्वसंज्ञानस्वजांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत् ॥ १० ॥
शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः ।स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् ॥ ११ ॥
रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम् ।ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहंकारलक्षणम् ॥ १२ ॥
तद्बीजं देहिनामाहुस्तद्बीजं जीवसंज्ञितम् ।कर्मणा कालयुक्तेन संसारपरिवर्तकम् ॥ १३ ॥
रमत्ययं यथा स्वप्ने मनसा देहवानिव ।कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते ॥ १४ ॥
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् ।जायते तदहंकाराद्रागयुक्तेन चेतसा ॥ १५ ॥
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः ।रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया ॥ १६ ॥
स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः ।व्यानोदानौ समानश्च पञ्चधा देहयापना ॥ १७ ॥
संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः ।दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ॥ १८ ॥
दुःखं विद्यादुपादानादभिमानाच्च वर्धते ।त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते ॥ १९ ॥
इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ ।परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा ॥ २० ॥
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् ।ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति ॥ २१ ॥
« »