Click on words to see what they mean.

युधिष्ठिर उवाच ।के पूर्वमासन्पतयः प्रजानां भरतर्षभ ।के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥ १ ॥
भीष्म उवाच ।श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि ।प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः ॥ २ ॥
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः ।ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः ॥ ३ ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।वसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा ॥ ४ ॥
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः ।अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥ ५ ॥
अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः ।प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥ ६ ॥
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः ।तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥ ७ ॥
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते ।अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ॥ ८ ॥
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् ।सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥ ९ ॥
अर्यमा चैव भगवान्ये चान्ये तनया विभो ।एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥ १० ॥
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत ।एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥ ११ ॥
एवं शतसहस्राणां शतं तस्य महात्मनः ।पुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम् ॥ १२ ॥
प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् ।स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ॥ १३ ॥
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः ।अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥ १४ ॥
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा ।सविता चैव धाता च विवस्वांश्च महाबलः ॥ १५ ॥
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः ॥ १६ ॥
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि ।मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ॥ १७ ॥
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥ १८ ॥
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ।सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥ १९ ॥
एत एवंविधा देवा मनोरेव प्रजापतेः ।ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ॥ २० ॥
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः ।ऋभवो मरुतश्चैव देवानां चोदिता गणाः ॥ २१ ॥
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ ।आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा ॥ २२ ॥
अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ ।स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ।इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥ २३ ॥
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् ।स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥ २४ ॥
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू ।औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ॥ २५ ॥
ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ।त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥ २६ ॥
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् ।प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥ २७ ॥
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ।एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् ॥ २८ ॥
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् ।एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ २९ ॥
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः ।एते नव महात्मानः पश्चिमामाश्रिता दिशम् ॥ ३० ॥
आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः ।गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ॥ ३१ ॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः ॥ ३२ ॥
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः ।साक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥ ३३ ॥
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः ।एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते ॥ ३४ ॥
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः ।मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ॥ ३५ ॥
« »