Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ युधि सत्यपराक्रम ।श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम् ॥ १ ॥
यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम् ।तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ ॥ २ ॥
तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः ।केन कार्यविसर्गेण तन्मे ब्रूहि पितामह ॥ ३ ॥
भीष्म उवाच ।पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः ।तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः ॥ ४ ॥
ततस्ते मधुपर्केण पूजां चक्रुरथो मयि ।प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम् ॥ ५ ॥
कथैषा कथिता तत्र कश्यपेन महर्षिणा ।मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु ॥ ६ ॥
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः ।बलेन मत्ताः शतशो नरकाद्या महासुराः ॥ ७ ॥
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः ।न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् ॥ ८ ॥
दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा ।न शर्म लेभिरे राजन्विशमानास्ततस्ततः ॥ ९ ॥
पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः ।दानवैरभिसंकीर्णां घोररूपैर्महाबलैः ।भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम् ॥ १० ॥
अथादितेयाः संत्रस्ता ब्रह्माणमिदमब्रुवन् ।कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम् ॥ ११ ॥
स्वयंभूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया ।ते वरेणाभिसंमत्ता बलेन च मदेन च ॥ १२ ॥
नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम् ।वराहरूपिणं देवमधृष्यममरैरपि ॥ १३ ॥
एष वेगेन गत्वा हि यत्र ते दानवाधमाः ।अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः ।शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः ॥ १४ ॥
ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः ।अन्तर्भूमिं संप्रविश्य जगाम दितिजान्प्रति ॥ १५ ॥
दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम् ।प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः ॥ १६ ॥
सर्वे च समभिद्रुत्य वराहं जगृहुः समम् ।संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः ॥ १७ ॥
दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः ।नाशक्नुवंश्च किंचित्ते तस्य कर्तुं तदा विभो ॥ १८ ॥
ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा ।संशयं गतमात्मानं मेनिरे च सहस्रशः ॥ १९ ॥
ततो देवादिदेवः स योगात्मा योगसारथिः ।योगमास्थाय भगवांस्तदा भरतसत्तम ॥ २० ॥
विननाद महानादं क्षोभयन्दैत्यदानवान् ।संनादिता येन लोकाः सर्वाश्चैव दिशो दश ॥ २१ ॥
तेन संनादशब्देन लोकाः संक्षोभमागमन् ।संभ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः ॥ २२ ॥
निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा ।स्थावरं जङ्गमं चैव तेन नादेन मोहितम् ॥ २३ ॥
ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः ।पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः ॥ २४ ॥
रसातलगतांश्चैव वराहस्त्रिदशद्विषः ।खुरैः संदारयामास मांसमेदोस्थिसंचयम् ॥ २५ ॥
नादेन तेन महता सनातन इति स्मृतः ।पद्मनाभो महायोगी भूताचार्यः स भूतराट् ॥ २६ ॥
ततो देवगणाः सर्वे पितामहमुपाब्रुवन् ।नादोऽयं कीदृशो देव नैनं विद्म वयं विभो ।कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत् ॥ २७ ॥
एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः ।उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः ॥ २८ ॥
पितामह उवाच ।निहत्य दानवपतीन्महावर्ष्मा महाबलः ।एष देवो महायोगी भूतात्मा भूतभावनः ॥ २९ ॥
सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः ।स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः ॥ ३० ॥
कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः ।समायातः स्वमात्मानं महाभागो महाद्युतिः ।पद्मनाभो महायोगी भूतात्मा भूतभावनः ॥ ३१ ॥
न संतापो न भीः कार्या शोको वा सुरसत्तमाः ।विधिरेष प्रभावश्च कालः संक्षयकारकः ।लोकान्धारयतानेन नादो मुक्तो महात्मना ॥ ३२ ॥
स एव हि महाभागः सर्वलोकनमस्कृतः ।अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः ॥ ३३ ॥
« »