Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् ।कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥ १ ॥
नारायणं हृषीकेशं गोविन्दमपराजितम् ।तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥ २ ॥
भीष्म उवाच ।श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ ३ ॥
असितो देवलस्तात वाल्मीकिश्च महातपाः ।मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ॥ ४ ॥
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः ।पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥ ५ ॥
किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः ।माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर ॥ ६ ॥
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः ।अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् ॥ ७ ॥
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् ॥ ८ ॥
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः ।अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥ ९ ॥
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे ।सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत् ॥ १० ॥
आश्रयं सर्वभूतानां मनसेति विशुश्रुम ।स धारयति भूतात्मा उभे भूतभविष्यती ॥ ११ ॥
ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि ।भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥ १२ ॥
स तत्र भगवान्देवः पुष्करे भासयन्दिशः ।ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥ १३ ॥
तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि ।तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥ १४ ॥
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ १५ ॥
तस्य तात वधात्सर्वे देवदानवमानवाः ।मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् ॥ १६ ॥
ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान् ।मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १७ ॥
मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम् ।मानसं जनयामास तैजसं ब्रह्मसत्तमम् ॥ १८ ॥
अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम् ।सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥ १९ ॥
तस्य पूर्वमजायन्त दश तिस्रश्च भारत ।प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः ॥ २० ॥
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः ।मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥ २१ ॥
उत्पाद्य तु महाभागस्तासामवरजा दश ।ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥ २२ ॥
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः ।विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥ २३ ॥
अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः ।सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥ २४ ॥
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान् ।गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् ॥ २५ ॥
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् ।तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥ २६ ॥
तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत ।दानवाश्च पराभूता दैतेयी चासुरी प्रजा ॥ २७ ॥
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः ।दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत ॥ २८ ॥
अहोरात्रं च कालं च यथर्तु मधुसूदनः ।पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥ २९ ॥
बुद्ध्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् ।पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा ॥ ३० ॥
ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर ।ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः ॥ ३१ ॥
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् ।पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ॥ ३२ ॥
स एवं चतुरो वर्णान्समुत्पाद्य महायशाः ।अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः ॥ ३३ ॥
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् ।तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥ ३४ ॥
न चैषां मैथुनो धर्मो बभूव भरतर्षभ ।संकल्पादेव चैतेषामपत्यमुदपद्यत ॥ ३५ ॥
तत्र त्रेतायुगे काले संकल्पाज्जायते प्रजा ।न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥ ३६ ॥
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप ।तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः ॥ ३७ ॥
एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः ।निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि ॥ ३८ ॥
दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः ।उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह ॥ ३९ ॥
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि ।यौनकाम्बोजगान्धाराः किराता बर्बरैः सह ॥ ४० ॥
एते पापकृतस्तात चरन्ति पृथिवीमिमाम् ।श्वकाकबलगृध्राणां सधर्माणो नराधिप ॥ ४१ ॥
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् ।त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ ॥ ४२ ॥
ततस्तस्मिन्महाघोरे संध्याकाले युगान्तिके ।राजानः समसज्जन्त समासाद्येतरेतरम् ॥ ४३ ॥
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः ।देवदेवर्षिराचष्ट नारदः सर्वलोकदृक् ॥ ४४ ॥
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप ।शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥ ४५ ॥
एवमेष महाबाहुः केशवः सत्यविक्रमः ।अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥ ४६ ॥
« »