Click on words to see what they mean.

वैशंपायन उवाच ।स एवमुक्तस्तु मुनिर्नारदो वदतां वरः ।कथयामास तत्सर्वं यथा शप्तः स सूतजः ॥ १ ॥
एवमेतन्महाबाहो यथा वदसि भारत ।न कर्णार्जुनयोः किंचिदविषह्यं भवेद्रणे ॥ २ ॥
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप ।तन्निबोध महाराज यथा वृत्तमिदं पुरा ॥ ३ ॥
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो ।संघर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ॥ ४ ॥
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः ।चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ॥ ५ ॥
स बलं भीमसेनस्य फल्गुनस्य च लाघवम् ।बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ॥ ६ ॥
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः ।प्रजानामनुरागं च चिन्तयानो व्यदह्यत ॥ ७ ॥
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै ।युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः ॥ ८ ॥
विद्याधिकमथालक्ष्य धनुर्वेदे धनंजयम् ।द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥ ९ ॥
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् ।अर्जुनेन समो युद्धे भवेयमिति मे मतिः ॥ १० ॥
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् ।त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः ॥ ११ ॥
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति ।दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह ॥ १२ ॥
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः ।क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथंचन ॥ १३ ॥
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च ।जगाम सहसा रामं महेन्द्रं पर्वतं प्रति ॥ १४ ॥
स तु राममुपागम्य शिरसाभिप्रणम्य च ।ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ॥ १५ ॥
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः ।उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥ १६ ॥
तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे ।गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥ १७ ॥
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि ।प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् ॥ १८ ॥
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके ।एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ॥ १९ ॥
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः ।जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥ २० ॥
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् ।कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥ २१ ॥
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव ।मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ॥ २२ ॥
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव ।दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते ॥ २३ ॥
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् ।युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥ २४ ॥
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः ।पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ॥ २५ ॥
यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम ।प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति ॥ २६ ॥
ततः प्रसादयामास पुनस्तं द्विजसत्तमम् ।गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥ २७ ॥
नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा ।गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ॥ २८ ॥
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः ।राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ॥ २९ ॥
« »