Click on words to see what they mean.

नारद उवाच ।कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च ।तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ॥ १ ॥
तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् ।प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने ॥ २ ॥
विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः ।चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ॥ ३ ॥
ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् ।कर्णेन सहितो धीमानुपवासेन कर्शितः ॥ ४ ॥
सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः ।कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः ॥ ५ ॥
अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः ।दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् ॥ ६ ॥
स तस्योरुमथासाद्य बिभेद रुधिराशनः ।न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् ॥ ७ ॥
संदश्यमानोऽपि तथा कृमिणा तेन भारत ।गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः ॥ ८ ॥
कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् ।अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् ॥ ९ ॥
यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः ।तदाबुध्यत तेजस्वी संतप्तश्चेदमब्रवीत् ॥ १० ॥
अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया ।कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ॥ ११ ॥
तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् ।ददर्श रामस्तं चापि कृमिं सूकरसंनिभम् ॥ १२ ॥
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् ।रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ॥ १३ ॥
स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् ।तस्मिन्नेवासृक्संक्लिन्ने तदद्भुतमिवाभवत् ॥ १४ ॥
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् ।राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ॥ १५ ॥
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः ।स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् ॥ १६ ॥
मोक्षितो नरकादस्मि भवता मुनिसत्तम ।भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् ॥ १७ ॥
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् ।कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ॥ १८ ॥
सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः ।पुरा देवयुगे तात भृगोस्तुल्यवया इव ॥ १९ ॥
सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् ।महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ॥ २० ॥
अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः ।मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ॥ २१ ॥
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम् ।भविता भार्गवे राम इति मामब्रवीद्भृगुः ॥ २२ ॥
सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा ।त्वया साधो समागम्य विमुक्तः पापयोनितः ॥ २३ ॥
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः ।रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ॥ २४ ॥
अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् ।क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् ॥ २५ ॥
तमुवाच ततः कर्णः शापभीतः प्रसादयन् ।ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव ॥ २६ ॥
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि ।प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ॥ २७ ॥
पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः ।अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ॥ २८ ॥
तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव ।भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ॥ २९ ॥
यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया ।तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥ ३० ॥
अन्यत्र वधकालात्ते सदृशेन समेयुषः ।अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन ॥ ३१ ॥
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते ।न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ॥ ३२ ॥
एवमुक्तस्तु रामेण न्यायेनोपजगाम सः ।दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ॥ ३३ ॥
« »