Click on words to see what they mean.

वैशंपायन उवाच ।कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः ।विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥ १ ॥
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः ।शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ॥ २ ॥
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् ।अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ॥ ३ ॥
द्वैपायनो नारदश्च देवलश्च महानृषिः ।देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥ ४ ॥
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः ।गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् ॥ ५ ॥
अभिगम्य महात्मानः पूजिताश्च यथाविधि ।आसनेषु महार्हेषु विविशुस्ते महर्षयः ॥ ६ ॥
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा ।पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् ॥ ७ ॥
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् ।आश्वासयन्तो राजानं विप्राः शतसहस्रशः ॥ ८ ॥
नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् ।विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ॥ ९ ॥
भवतो बाहुवीर्येण प्रसादान्माधवस्य च ।जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ॥ १० ॥
दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात् ।क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ॥ ११ ॥
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप ।कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥ १२ ॥
युधिष्ठिर उवाच ।विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् ।ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ॥ १३ ॥
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा ।कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ॥ १४ ॥
सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् ।जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥ १५ ॥
किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् ।द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥ १६ ॥
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा ।अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥ १७ ॥
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद ।मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥ १८ ॥
योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे ।सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ॥ १९ ॥
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः ।अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे ॥ २० ॥
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः ।गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ॥ २१ ॥
तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् ।पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ॥ २२ ॥
यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत ।स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ॥ २३ ॥
अजानता मया संख्ये राज्यलुब्धेन घातितः ।तन्मे दहति गात्राणि तूलराशिमिवानलः ॥ २४ ॥
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः ।नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ॥ २५ ॥
गता किल पृथा तस्य सकाशमिति नः श्रुतम् ।अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ॥ २६ ॥
पृथाया न कृतः कामस्तेन चापि महात्मना ।अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ॥ २७ ॥
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे ।अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ॥ २८ ॥
युधिष्ठिरेण संधिं च यदि कुर्यां मते तव ।भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ॥ २९ ॥
सोऽहं निर्जित्य समरे विजयं सहकेशवम् ।संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ॥ ३० ॥
तमवोचत्किल पृथा पुनः पृथुलवक्षसम् ।चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ॥ ३१ ॥
सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः ।प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ॥ ३२ ॥
पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् ।सकर्णा वा हते पार्थे सार्जुना वा हते मयि ॥ ३३ ॥
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् ।भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ॥ ३४ ॥
तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् ।सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ॥ ३५ ॥
न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने ।अथ शूरो महेष्वासः पार्थेनासौ निपातितः ॥ ३६ ॥
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम ।पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ॥ ३७ ॥
तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः ।कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ॥ ३८ ॥
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः ।सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ॥ ३९ ॥
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः ।सभायां गदतो द्यूते दुर्योधनहितैषिणः ॥ ४० ॥
तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह ।कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ॥ ४१ ॥
सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह ।कारणं नाधिगच्छामि कथंचिदपि चिन्तयन् ॥ ४२ ॥
कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत् ।कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ॥ ४३ ॥
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् ।भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ॥ ४४ ॥
« »