Click on words to see what they mean.

भीष्म उवाच ।ततश्चितां बकपतेः कारयामास राक्षसः ।रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम् ॥ १ ॥
तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् ।प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥ २ ॥
तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा ।उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥ ३ ॥
तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ ।सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ॥ ४ ॥
ततः संजीवितस्तेन बकराजस्तदानघ ।उत्पत्य च समेयाय विरूपाक्षं बकाधिपः ॥ ५ ॥
ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा ।प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत ॥ ६ ॥
श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् ।यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ॥ ७ ॥
यदा बकपती राजन्ब्रह्माणं नोपसर्पति ।ततो रोषादिदं प्राह बकेन्द्राय पितामहः ॥ ८ ॥
यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः ।तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति ॥ ९ ॥
तदायं तस्य वचनान्निहतो गौतमेन वै ।तेनैवामृतसिक्तश्च पुनः संजीवितो बकः ॥ १० ॥
राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् ।यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर ।सखायं मे सुदयितं गौतमं जीवयेत्युत ॥ ११ ॥
तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ ।संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा ॥ १२ ॥
सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः ।संपरिष्वज्य सुहृदं प्रीत्या परमया युतः ॥ १३ ॥
अथ तं पापकर्माणं राजधर्मा बकाधिपः ।विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ॥ १४ ॥
यथोचितं च स बको ययौ ब्रह्मसदस्तदा ।ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् ॥ १५ ॥
गौतमश्चापि संप्राप्य पुनस्तं शबरालयम् ।शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः ॥ १६ ॥
शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा ।कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् ।निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ॥ १७ ॥
एतत्प्राह पुरा सर्वं नारदो मम भारत ।संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ ।मयापि भवते सर्वं यथावदुपवर्णितम् ॥ १८ ॥
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ १९ ॥
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते ॥ २० ॥
कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ ।मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् ।सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ॥ २१ ॥
परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः ।मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ॥ २२ ॥
एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव ।मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ॥ २३ ॥
वैशंपायन उवाच ।एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना ।युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥ २४ ॥
« »