Click on words to see what they mean.

भीष्म उवाच ।अथ तत्र महार्चिष्माननलो वातसारथिः ।तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ॥ १ ॥
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा ।कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत् ॥ २ ॥
ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम् ।निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ॥ ३ ॥
स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा ।तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः ॥ ४ ॥
ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् ।न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् ॥ ५ ॥
स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा ।मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः ॥ ६ ॥
उभे द्विरात्रं संध्ये वै नाभ्यगात्स ममालयम् ।तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत् ॥ ७ ॥
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः ।तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः ॥ ८ ॥
दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया ।निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः ॥ ९ ॥
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम ।पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ।ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् ॥ १० ॥
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ ।न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः ॥ ११ ॥
स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः ।त्वरमाणः परं शक्त्या गौतमग्रहणाय वै ॥ १२ ॥
ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा ।राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् ॥ १३ ॥
तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः ।राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः ।कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् ॥ १४ ॥
रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः ।आर्तनादश्च सुमहानभूत्तस्य निवेशने ॥ १५ ॥
सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् ।अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति ॥ १६ ॥
अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः ।पापाचारः पापकर्मा पापात्मा पापनिश्चयः ।हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः ॥ १७ ॥
इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः ।नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत ॥ १८ ॥
दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः ।इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः ॥ १९ ॥
शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम् ।न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् ॥ २० ॥
एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् ।दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः ॥ २१ ॥
इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः ।छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा ॥ २२ ॥
दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम् ।क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते ॥ २३ ॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥ २४ ॥
मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः ।क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः ॥ २५ ॥
« »