Click on words to see what they mean.

भीष्म उवाच ।गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा ।कौतूहलान्वितो राजन्राजधर्माणमैक्षत ॥ १ ॥
राजधर्मोवाच ।भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे ।अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजर्षभ ॥ २ ॥
भीष्म उवाच ।तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा ।शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् ॥ ३ ॥
भगीरथरथाक्रान्तान्देशान्गङ्गानिषेवितान् ।ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ॥ ४ ॥
वह्निं चापि सुसंदीप्तं मीनांश्चैव सुपीवरान् ।स गौतमायातिथये न्यवेदयत काश्यपः ॥ ५ ॥
भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः ।क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् ॥ ६ ॥
ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत ।सोऽब्रवीद्गौतमोऽस्मीति ब्राह्म नान्यदुदाहरत् ॥ ७ ॥
तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् ।गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ॥ ८ ॥
अथोपविष्टं शयने गौतमं बकराट्तदा ।पप्रच्छ काश्यपो वाग्मी किमागमनकारणम् ॥ ९ ॥
ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते ।समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत ॥ १० ॥
तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि ।कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् ॥ ११ ॥
चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा ।पारंपर्यं तथा दैवं कर्म मित्रमिति प्रभो ॥ १२ ॥
प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि ।सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् ॥ १३ ॥
ततः प्रभातसमये सुखं पृष्ट्वाब्रवीदिदम् ।गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि ॥ १४ ॥
इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् ।विरूपाक्ष इति ख्यातः सखा मम महाबलः ॥ १५ ॥
तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः ।कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः ॥ १६ ॥
इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः ।फलान्यमृतकल्पानि भक्षयन्स्म यथेष्टतः ॥ १७ ॥
चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च ।तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ ॥ १८ ॥
ततो मेरुव्रजं नाम नगरं शैलतोरणम् ।शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा ॥ १९ ॥
विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः ।प्रहितः सुहृदा राजन्प्रीयता वै प्रियातिथिः ॥ २० ॥
ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर ।गौतमो नगरद्वाराच्छीघ्रमानीयतामिति ॥ २१ ॥
ततः पुरवरात्तस्मात्पुरुषाः श्वेतवेष्टनाः ।गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् ॥ २२ ॥
ते तमूचुर्महाराज प्रेष्या रक्षःपतेर्द्विजम् ।त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति ॥ २३ ॥
राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः ।स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् ॥ २४ ॥
ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः ।गौतमो नगरर्द्धिं तां पश्यन्परमविस्मितः ॥ २५ ॥
तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् ।दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ॥ २६ ॥
« »